SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ साहित्यदर्पणे 'गुरुपरतन्त्रतया बत दूरवरं देशमुद्यतो गन्तुम् । अलिकुलकोकिलललिते नेष्यति सखि ! सुरभिसमयेऽसौ १ ॥' अत्र नैष्यति ? अपि तर्हि एष्यत्येवेति काक्वा व्यज्यते-- चेष्टावैशिष्टये यथा-- 'संकेतकालमानसं विटं ज्ञात्वा विदग्धया। भिन्नकण्ठध्वनिः = भिन्नः ( स्वाभाविककण्ठध्वनितो भेदयुक्तः ) यः कण्ठध्वनिः ( कण्ठस्वरः ) स "काकुः" इति अभिधीयते = कथ्यते, इति = इत्थम्, उक्तप्रकारायाः = कथितलक्षणायाः, काकाः भेदाः, आकरेभ्यः उपजीव्यमूलग्रन्थेभ्यः, ज्ञातव्याः- बोद्ध व्याः। काकुवैशिष्टयमुदाहरति-गुरुपरतन्त्रतयेति । हे सखि ! बत ! गुरुपरतन्त्रतया दूरतरं देशम् गन्तुम् उद्यतः असो अलिकुलकोकिलललिते सुरभिसमये न एष्यति ? इत्यन्वयः । प्रवासोद्यतभर्तृकाया नायिकायाः सखी प्रत्युक्तिरियम् । हे सखि = हे वयस्ये, बतेति खेदद्योतकमव्ययम् । गुरुपरतन्त्रतया = गुरोः ( पितुः ) परतन्त्रतया ( अधीनस्वेन ), दूरतरं = विप्रकृष्टतरं, देशं = स्थान, गन्तु = यातुम्, उद्यतः = तत्परः, असो = अयम्, अलिकुलकोकिलललिते = भ्रमरसमूहपिकमनोहरे, सुरभिसमये = वसन्तकाले, न एष्यति = न आगमिष्यति, अत्र = अस्मिन् उदाहरणे, न एष्यति = न आग'मिष्यति; इति नायिका निषेधाऽभिप्रायेण कथयति, सख्याः "न एष्यति ?" इति काक्वा प्रश्नतः "एष्यति एव" इति विधिरूपोऽर्थो व्यज्यते । चेष्टावैशिष्ट्ये यथा-सहतेकालमनसमिति। विदग्धया विटं सङ्केतकालमनसं ज्ञात्वा हसन्नेत्राऽपिताकूतं लीलापन निमीलितमित्यन्वयः । विदग्धया = निपुणया नायिकया, विटं = षिङ्गम्, उपपतिमिति भावः सङ्केतकालमनस = सङ्केतकाले मनो यस्य तं, सङ्केतकालजिज्ञासुमिति भावः । काकुके भेद आकरग्रन्थों ( नाट्यशास्त्र आदियों) से जानने चाहिए। काकुकी विशेषतामें जैसे गृहपरतन्त्रतया इति । नायिका सखीसे कहती है । हे सखि ! गुरुजन (पिताआदि ) के अधीन होनेसे बहुत दूर देशमें जानेके लिए तत्पर मेरे प्रिय भ्रमरों और कोयलोंसे मनोहर वसन्त ऋतुमें नहीं आयेंगे। . यहांपर नायिकाने "न एष्यति" नहीं आयेंगे ऐसा निषेधके अभिप्रायसे कहा, सखी "न एष्यति" ? नहीं आयेंगे? ऐसी काकुसे प्रश्नकर "आयेंगे" ऐसे विविधरूप अर्थको व्यक्त करती है। चेप्टावैशिष्टयका उदाहरण देते है-सतेति । चतुर नायिकाने विटको संकेतज्ञानका इच्छुक समझकर विकसित नेत्रोंसे अभिप्राय भूचित कर लीलाकमलको
SR No.023456
Book TitleSahityadarpanam
Original Sutra AuthorN/A
AuthorSheshraj Sharma Negmi
PublisherKrushnadas Academy
Publication Year1994
Total Pages690
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy