________________
७६
साहित्यदपणे
मिथ्यावादिनि ! दूति ! बान्धवजनस्याज्ञतपीडागमे ! ___ वापी स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥'
अत्र तदन्तिकमेव रन्तुं गतासीति विपरीतलक्षणया लक्ष्यम् । तस्य च रन्तुमिति व्यङ्ग प्रतिपाद्यं दूतीवैशिष्टयाद् बोध्यते । अन्यसंनिधिवैशिष्टये यथा--
'उअ णिश्चल ! णिप्पन्दा भिसिणीपत्तम्मि रेहइ बलाआ। वापी स्नातु गता असि, पुनः तस्य अधमस्य अन्तिकं न गता असि इत्यन्वयः ।
ममाऽनुनयेन अपि तव कान्तो नागत इति कथनेन हे मिथ्यावादिनि = है मृषा: भाषिणि !, बान्धबजनस्य = सखीजनस्य, अज्ञातपीडागमे = अन्तकलितदुःखोऊमे !, हे दूति %Dहे सन्देशहरे !, तव = भवत्याः, स्तनतटंकुचतट, निःशेषच्युतचन्दनं = समस्ताऽपगतश्रीखण्डम्, अधरः = निम्नोष्ठः, निमष्टरागः = निःशेषाऽपगतलौहित्यः, नेत्रे = नयने, दूरम् = अतिशयं यथा तथा । अनजने = कज्जलरहिते, तन्वी कृशा, तनुश्च = शरीरंच, पुलकिता= संजातरोमाञ्चा, अस्तीति शेषः । अतः स्वम्, इतः = अस्मात्स्थानात्, स्नातु= स्नानं कर्तु, वापी = दीधिकां, गता = प्राप्ता, असि पुनः = भूयः, तस्य, अधर्मस्य = निकृष्टस्य । मदल्लभस्येतिभावः । अन्तिकं = निकटं, न गता असि = न प्राप्ता वर्तसे ।
__ अत्र "स्तनतटम्" इत्यत्र तट = समीपः; स च समप्रायो देशः तत्रव आलिङ्गनवशाच्चन्दनं नि शेषच्युतं, स्तनाग्रादिषु च शेषम् । अधरः चुम्बनात् निर्मुष्टरागः, न तु उत्तरोष्ठः । नेत्रे चुम्वनात् दूरमनञ्जने, निकटे तु साञ्जने, अञ्जनस्य कुत्रचिदवशेषः सूचितः । तया च इयं तनुः स्नानाद्बहुकालाऽनन्तरमपि इदानीं पुलकिता । अधर्मस्य = प्रागपि ज्ञात निकृष्टत्वस्य, एषां च पदार्थानां वापीस्नानविरुद्धानामनुसन्धानादेव वापीस्नानाऽभावस्य उद्गमात् तदन्तिकं न गताऽसीत्यत्र विपरीतलक्षणाया "गताऽसी" ति गमनं लक्ष्यं, तस्य च रन्तुमिति रमणं व्यङ्गय, प्रयोजनम् तच्च बोद्धव्यदूतीवैशिष्टयाबोध्यते ।
अन्यसन्निधिवैशिष्टये यथा--उग्र इति । ( सखी ) की पीडाको न जाननेवाली हे मिथ्याभाषिणि दूति ! तू यांसे बावलीमें स्नान करने गई परन्तु उस अधम जन ( मेरे प्रिय ) के पास नहीं गई ।
____ इस पद्यमें विपरीतलक्षणासे उस ( अधम ) के समीप ही तू गई यह अर्थ लक्षित होता है । उसका "रन्तुम्" रमण करनेके लिए ऐसा व्यङ्गय मर्य प्रतिपाद्य (बोद्धव्य ) दूतीकी विशेषतासे बोधित होता है।
अन्यसन्निधिकी विशेषताका. उदाहरण जैसे-उमः । रमण करनेके लिए