________________
- साहित्यदर्पणे
-
आदिशब्दाद्विप्रयोगादयः । उक्तं हि
संयोगो विप्रयोगश्च साहचर्य विरोधिता । अर्थः प्रकरणं लिङ्ग शब्दस्यान्यस्य संनिधिः॥ सामर्थ्यमौचिती देशः कालो व्यक्तिः स्वरादयः।
शब्दार्थस्यानवच्छेदे विशेषस्मृतिहेतवः ॥' इति । 'सशङ्खचक्रो हरिः' इति शङ्खचक्रयोगेन हरिशब्दो विष्णुमेवाभिधत्ते । आदिशब्दाद विप्रयोगादयः = दियोगादयः ।
भर्तृहरिकारिकाऽनुसारेण संयोगादीनुद्दिशति-संयोग इति । संयोगः सम्बन्ध विशेषः, विप्रयोगः-वियोगः, साहचर्य = सहचरत्वं, विरोधिता = वरम्, एतच्चतुष्टयं समीपोच्चारितपदार्थान्तरेण बोध्यम्, अर्थः तात्पर्यम्, प्रकरणं = प्रस्तावः । लिङ्ग = चिह्नम्। अन्यस्य = अपरस्य, शब्दस्य = पदस्य, सन्निधिः = सामीप्यं, सामर्थ्य = तत्कारणनियमः, ओचिती= औचित्यं, प्रकृतोपयोगित्वमित्यर्थः । देशः = समीपो. चारितस्याश्रयस्थानम्, काल:= समीपोच्चारितस्य समयविशेषः । ब्यज्यते स्त्रीत्वादिकमनयेति, लिङ्गमित्यर्थः । स्वरादयः = उदात्तादयः, आदिपदेन चेष्टादयो गृह्यन्ते । शब्दार्थस्य = पदार्थस्य, अनवच्छेदे = संदेहे सति, एते = पूर्वोक्ता: संयोगादयः, विशेषस्मृतिहेतवः विशेषस्मृतः (प्रकृताऽर्थोपस्थितेः ), हेतवः ( कारणानि )।
। क्रमेण संयोगादीनां नियन्त्रणमुदाहरति-सशसचक्र इति। "सशङ्खचक्रो हरिः" इत्यत्र हरिपदस्य "यमाऽनिलेन्द्रचन्द्राकविष्णुसिंहांऽशुवाजिषु । शुकाहिकपिभेकेषु. हरिना कपिले त्रिषु" इति कोशतः यमाऽनिलाधनेकार्थत्वेऽपि हरिपदं "सशङ्खचक्र" इति पदेन शङ्खचक्रसंयोगेन विष्णमेव अभिधत्ते प्रतिपादयति ।
"अशङ्खचक्रो हरिः" इत्यत्र "अशङ्खचक्र" इति पदेन शङ्खचक्रविप्रयोजेन हरिशब्दो विष्णुमेव अभिधत्ते।
आदि शब्दसे विप्रयोग आदि लिये जाते हैं। कहा गया है-संयोग, विप्रयोग, साहचर्य विरोधितों ( विरोध ) अर्थ, प्रकरण, लिङ्ग (चिह्न ), अन्य शब्दका सामीप्य सामयं, औचित्य, देश, काल व्यक्ति (लिङ्ग), स्वर आदि ये सब शब्दके अर्थका अनवच्छेद ( सन्देह ) होनेपर विशेष ज्ञानके कारण होते हैं।
संयोग आदिका क्रमसे उदाहरण देते हैं।
"सशङ्खचक्रो हरिः" यहाँपर "हरि" शब्दके यम, अनिल आदि अनेक अर्थ होनेपर भी शङ्ख और चक्रके संयोगसे "विष्ण" का ही बोध होता है।
"अशङ्खचक्रो हरिः" यहाँपर शङ्ख और चक्रके विप्रशंग (वियोग ) से हरि पदसे विष्णुका बोध होता है।