________________
164
अलंकारराघवे
|| अथ गम्यौपम्यपेटिका || प्रतीपान्तविरोधपेटिकानन्तरं 'गम्यौपम्यस्य बुद्धिःस्थत्वात् 'प्रसंग. पेटिकायास्संगतिः । तत्रापि पदार्थगतालंकारद्वयानन्तरं वाक्यार्थगतमलंकारद्वयनिरूपणं युक्तम् । पदार्थगतयोरपि मध्ये दीपकस्य तुल्ययोगितापेक्षया बहुभेदवत्वादादौ निरूपणमुचितमित्यमान्तरसङ्गतिः ।
|| अथ दिपकम् ॥ 'मिळितानां तु तथेषां दीपकमित्युच्यते पोढा 'एतदलंकृति. युगलम्' इति विद्याधरः। 'गम्यमाने मिथस्साम्ये प्रस्तुताप्रस्तुतात्मनाम् । सकृद्धर्मस्य निर्देशः कारकस्य क्रियासु वा ॥' 'उत्कृष्टदीपकं तत्स्यात् आदौ मध्येऽन्ततस्तथा।
इति साहित्यचिन्तामणिकारः । । 'प्रस्तुताप्रस्तुतानां तु सामस्त्ये तुल्यधर्मतः ।
औपम्यं गम्यते यत्र दीपकं तं निगद्यते ||' इति विद्यानाथः । 1 औपन्यगम्यत्वस्य बुद्धिःस्थत्वात् - न 'प्रसंग एवेति पेटिकायास्संगतिः - त,न
अस्यालंकारस्य सङ्गत्यवान्तरसंगत्यादयो अत्र नोक्ताः । प्रायः लुप्तः इति प्रतिभाति । काव्यप्रकाशकारलक्षणमेवमस्ति- सकृवृत्तिस्तु धर्मस्य प्रकृताप्रकृतात्मनाम् । सैव क्रियासु बह्वीषु कारकस्येति दीपकम् ' इति । . 'एतदलंकृतियुगलं कथितं तावत् पदार्थगतत्वेन । (एकावली-८उन्मेषः । 'उत्सृष्टदीपकं - आ
.