________________
162
अलङ्कारराघवे
अत्र विमुक्तये बबन्धेति विपरीतफलप्राप्त्यर्थः प्रयत्नः । ननु 'विषमालंकाराद्यभेदे विचित्रमन्तर्भूतं, कारणाद्विरुद्धकार्योत्पत्तिरूपत्वादिति चेत् उच्यते । विचित्रे हि स्वनिषेधो वैपरीत्यं गमयति । विषमे तु व्यत्यय इति भेदः इति पूर्वालंकारिकैरुक्तमिति सर्व निर्मलम् ।
॥ अथ प्रतीपालंकारः ॥ अस्यापि विरोधगन्धस्पर्शात् विरोधपेटिकायां संगतिः । विरोधस्यास्फुटत्वेन अन्त्ये निवेश इत्यवान्तरसंगतिः । ननु -
'आक्षेप उपमानस्य प्रतीपमुपमेयता । तस्यैव यदि वा कल्प्या तिरस्कार निबन्धना ।'
... इति काव्यप्रकाशकारः । 'उपमानस्याक्षेपः स्यादुपमेयत्वकल्पनं यद्वा । यत्र प्रतीपमेतद्विबुधैरभिधीयते द्विविधम् ॥'
___ इति विद्याधरः । 'प्रतीपमुपमानस्य निषेधो वोपमेयता'
_ इति साहित्यचिन्तामणिकारः । 'आक्षेप उपमानस्य कैमर्थक्येन कथ्यते । यद्वोपमेयभावस्स्यात्तत्प्रतीपमुदाहृतम् ||' इति विद्यानाथः ।
तत्र सर्वत्र वक्तव्यं, किम् उपमानस्याक्षेपः प्रतीपं, तस्योपमेयता वा ? तदुभयरूपत्वं वा ! नाद्यः । उपमानस्योपमेयतारूपे अव्याप्तेः । न द्वितीयः ।
__
1 विषमालंकाराद्यवच्छेदेऽपि-आ ' निबन्धनम् -आ...
.
..