________________
विशेषालङ्कारप्रकरणम्
145
ii) एकस्यानेकगोचरत्वं यथा - 'भक्या भावयितारो राम
पश्यन्ति 'दिव्यभूषाढ्यम् । पार्थे पुरश्च पश्चाद्धृदये च
जले च दिक्षु गगने च ॥' अत्र एकस्यैव रामस्य अनेकगोचरत्वमुक्तम् । ii) अशक्यकरणं यथा -
श्रीरामचन्द्रस्य शिरकिरीट
माणिक्यरत्नस्य मयूखजालम् । सीमाद्रिपाश्चात्यतमस्समूह
बिभेद सौरातपदुर्निवारम् || अत्र रामकिरीरमणितेजसश्चक्रवाळशैलपाश्चात्यतमोमेदनमशक्यकरणम् ।
॥ अथ विषमालङ्कारः ।। 'अस्य विरोधमूलत्वात् 'पेटिकासङ्गतिः। भेदत्रयवत्त्वेन परिशेषात् विशेषानन्तर्यम् इत्यवान्तरसंगतिः।
'दिव्यभूषणाढ्याः-त * श्रीरामचन्द्रस्य शिरःप्रकाशकिरीटमाणिक्यमयूखजालम् । सीमाद्रिपाश्चात्यतमस्समूहं बिभेद सौरातपदुर्निवारम् ॥-न
उपजातिवृत्तमिदम् । 'अत्र-न 'पेटिकयोस्संगतिः-आ ..