SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ii रचयामासुः । ध्वनिप्रतिष्ठ । पका दानन्दवर्धनादनन्तरमागतास्सर्वे आलङ्कारिका: प्राचीनालङ्कारिकाणामेवाभिप्रायान् विमृश्य विचारितवन्तः । एतेषु मम्मटः आद्यः । अयञ्च प्राचीननवीनालङ्कारिकाणां मध्ये समन्वयकारः इत्येव प्रसिद्धः । विश्वनाथ - विद्यानाथ - विद्याधर - जय देव - हेमचन्द्र - अप्पय्यदीक्षितजगन्नाथप्रभृतयः अन्ये केचन प्रसिद्धाः आलङ्ककारिकाः प्राचीननवीनविषयान् सम्मेल्य नूतनसरण्या ग्रन्थान् ग्रथितवन्तः । आनन्दवर्धनानन्तरमागता एते कारिक रूपेण, वृत्तिरूपेण व्याख्यानरूपेण स्वतन्त्र कृतिषु स्वाभिप्रायान् प्रकटयामासुः । परमेतेषां सर्वेषां कृतिरत्नानि संपूर्ण यावत् न प्रकटितानि वर्तते । अप्रकटिताः बहवो ग्रन्थाः अधुनाऽपि हस्तप्रतिरूपेण वर्तन्ते इत्ययं विषयः नाश्चर्य जनयति । एतादृशेषु ' अलङ्कारराघवम् अप्येकः । अस्य संशोधनकार्यं सम्पादनकार्यं च मम भागधेयात् मया लब्धमिति नितान्तमानन्दसागरे निमज्जति मे हृत् । " ग्रन्थकारस्य परिचयः अलङ्कारराघवस्यास्य ग्रन्थस्य कर्ता यज्ञेश्वरदीक्षितः । स्वयमेव ग्रन्थकारः स्वनाम ग्रन्थमध्ये निर्दिशति । शब्दालङ्कारनिरूपणानन्तरं शब्दालङ्कारप्रकरणसमाप्तिवाक्ये - इति श्रीचरकूरिकोण्डुभट्टोपाध्यायतनययज्ञेश्वरदीक्षितेन तिरुमलयज्वप्रियसोदरेण विरचिते अलङ्कारराघवे शब्दालङ्कारनिरूपणं संपूर्णमिति कथितवान् । अनेनेदं निश्चितं यत् कृतेरस्याः रचयिता यज्ञेश्वरदीक्षितः पिता कोण्डुभ उपाध्यायः, तिरुमलयज्वाऽस्य सोदरः, आन्ध्रप्रदेशस्थः चरकूरिनामकः ग्रामः जन्मभूमिरस्येति' च । 1 अलङ्कारराघवः — by Cerukuri Yajñeśvara Diksita, son of Kondubhatta and brother of Tirumala Yajvan, C. 1600 A.D. [New Catalogus Catalogorum Vol I.P. 296] ii] The Author is the son of Cerukuri Kondubhatta and nephew of the famous Lakshmidhara. as a commentator of his son's ‘Citrabandha Ramayana composed in AD 1635. 6
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy