________________
उपोद्घातः विस्तृतेऽस्मिन् अलङ्कारशास्त्रे लक्षणग्रन्थाः बहवो निबद्धाः परिदृश्यन्ते । नाट्यशास्त्रप्रवर्तकात् भरतात्प्रागेव अस्य शास्त्रस्योद्भवः दरीदृश्यते। 'वेदादेव शास्त्रमिदं समुद्भूतमित्यत्र प्रमाणमस्ति । रामायण-महाभारत-पुराणानन्तरं कवि-काव्य-रसादीनां लक्षणानि तत्र तत्र लक्षणकारैरुपनिबद्धानि । भरतेन नाट्यशास्त्रे रसादीनां वर्णनमपि कृतम् । परं शास्त्रीयसरण्या रस-गुणालङ्कारादीनां लक्षणादीनि तेन नैव कृतानि । अलङ्करादीनां लक्षणानि निर्दिष्टतया कथितवत्सु लक्षणकारेषु भामह एव आद्यः । ततः उद्भटरुद्रटवामनादयः आलङ्कारिकाः स्वस्वलक्षणग्रन्थान् रचयामासुः । अलङ्कारशास्त्रप्रवर्तकेषु मध्ये आनन्दवर्धनात् प्राक् स्थिताः लक्षणकाराः प्राचीनालङ्कारिकाः, तत आगतास्सर्वे नवीनालङ्कारिका इति प्रथिताः। एतेषु 'शब्दार्थयुगलं काव्यम् ' इति केषाञ्चन मतम् । 'सहृदयरञ्जकार्थप्रतिपादकशब्द एव काव्यम् ' इत्यन्येषां मतम् । अस्य काव्यशरीरस्य कश्चन आत्मा भवेत् तेनैव सहृदयमनोरञ्जनमिति विचार्य अलङ्कार-गुण-रीति-ध्वनि-वक्रोक्त्यौचित्यरसादीन् काव्यात्मत्वेन आलङ्कारिकाः प्रतिपादयामासुः। तदनुसारादेते लक्षणग्रन्थानपि
1 i) ' कविं शशासुः कवयोऽदब्धा निधारयन्तो दुर्यास्वायोः'
। (ऋग्वेदः-४म-२सू-१२मन्त्रः) ii) कविमिव प्रचेतसं यं देवासो अध द्विता । नि मर्येष्वादधुः
(ऋग्वेदः-८म.८४सू-२मन्त्रः) ' ' शब्दार्थों सहितौ काव्यम्'- (भामहः-काव्यालङ्कारः १-१६) ' i) — शरीरं तावदिष्टार्थव्यवच्छिन्नापदावली'- -(दण्डी-काव्यादर्शः) ii) 'रमणीयार्थप्रतिपादकशब्दः काव्यम्' (जगन्नाथः-रसगङ्गाधरः १आ.)