________________
अलङ्कारराघवे
' स चतुर्विधः । लौकिके वस्तुनि लोकव्यवहारसमारोपः । शास्त्रीयव्यवहारसमारोप इति द्विविधः । शास्त्रीयवस्तुनि शास्त्रीयव्यवहारसमारोपः, लौकिकव्यवहारसमारोपश्चेति द्विविधः । एवं चतुर्विधस्य यथाक्रममुदा
118
हरणानि
-
i) न दीनभावी धृतमीनराजः समन्वितो जीवनरेखयाऽपि । सकङ्कणश्री रघुनाथपाणिः समुद्र इत्येव जनैबभाषे ॥
अत्र लौकिके रामपाणिरूपवस्तुनि समुद्रव्यवहारः ।
कल्पितो यथा
ii) अनन्तमेकं परमद्वितीयं बृहत्स्वरूपं वचसामवर्ण्यम् । रामस्य वक्षःस्थलरत्नमासीत् स्वयंप्रकाशव्यवहारपात्रम् ॥
अत्र रामवक्षःस्थलमाणिक्ये वेदान्तशास्त्रप्रसिद्धपरब्रह्मव्यवहारसमारोपः
3
—
1
अत्र समासोक्तौ सर्वत्र व्यवहारसमारोप एव जीवितम् । स चतुविधः त्रः । लौकिके वस्तुनि लौकिकव्यवहारसमारोपः, शास्त्रीयवस्तु - व्यवहारसमारोपश्चेति द्विविधः । तथा शास्त्रीयवस्तुनि शास्त्रीयव्यवहारसमारोपः, लौकिकव्यवहारसमारोपश्चेति । एवं चतुर्विधः । (प्रतापरुद्रीये - समासोलक्यक्कारप्रकरणे)
3
* उपेन्द्रवज्रावृत्तम् ।
उपजातिवृत्तम् ।