SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ 116. अलङ्कारराघवे इत्युपमालक्षण निबद्धसमासोक्तावव्याप्तिप्रसङ्गात् । न च विशेषणं पदं व्यावर्तकमात्रपरमिति वाच्यम् । 'रजन्यां चन्द्रः प्रकाशत' इत्यत्रातिव्याप्तिप्रसङ्गात् । तेन ' "दिवा सूर्यः प्रकाशत' इति अप्रस्तुतेऽतिप्रतीतः । किञ्च - गानं वितन्वन् मुहुरध्वधूम प्रसङ्गभीत्या स्वनिवासदेशम् । विहाय निर्गत्य बहिःप्रदेशं . प्रयात्ययं वैदिकसार्वभौमः। इत्यादावपि समासोक्तिप्रसङ्गात् । तत्र प्रस्तुतविशेषणतौल्ये अप्रस्तुतस्याशक्यस्य गम्यत्वात् । न चेष्टापत्तिः । गम्यकाप्रस्तुतेन प्रस्तुतस्य बाच्यस्य चारुत्वाभावात् । नन्वस्तु तर्हि विद्यानाथलक्षणमिति चेन्मैवम् । ध्वनावतिप्रसङ्गात् । नहि ध्वनिसमासोक्त्योरभेदः संभवति । ध्वनः प्रधानत्वात् समासोक्तेरलकारतया 'अलाहायशेषत्वेन प्राधान्याभावात् । तस्मात् समासोक्तिलक्षणं दुर्निर्वचमिति चेदत्रोच्यते - 'अश्लिष्टविशेष्यत्वे सत्यविशेषणतौल्यनिवन्धनाप्रस्तुतव्यक्तरप्रधानत्वे सति प्रस्तुतविशेषणसाम्यात् अप्रस्तुतव्यक्तित्वं समा. सोक्तिरिति' लक्षणनिष्कर्षः । अत्र यद्व्यतिरेकेऽपि भित्तिव्यतिरेकः, सदृश्यव्यक्तियक्तिशब्देन विवक्षितेति नोक्तातिप्रसङ्गः । विशेषणपदं व्याव1 निबन्धनसमासोक्तौ-त,न. विशेषणपदं-a,न... .. ''दिवा सूर्यप्रकाशः' इति--आ 'प्रस्तुते विशेषणतौल्ये-न .. ' गम्येनाप्रस्तुतेन-त,न • अलकार्यविशेषत्वेन-न
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy