SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ उत्प्रेक्षालामाकरणम् 101 अत्र गगनरूपद्रव्याभावः फलम् । २६) उपमोपक्रमोत्प्रेक्षा यथा - रामकोटीरहीराणां प्रभास्सर्वकषादयः ।। विपिनेषु प्रसूनन्ति नक्षत्रन्ति नभोऽन्तरे | अत्र उपमानत्वेन निबद्धानामपि प्रसूनादीनां विपिनादिखानेषु सम्भवौचित्यात् अभिन्नत्वेन प्रतीतेः उत्प्रेक्षायाम् उपमायाः पर्यवसानम् । - - - ॥ अथ अतिशयोक्तिः ॥ उत्प्रेक्षानन्तरमध्यवसायमूलत्वेन परिशेषात् अतिशयोक्तिनिरूपणमुचित. मित्यवान्तरसङ्गतिः । ननु - 'निगीर्याध्यवसानं तु प्रकृतस्य परेण यत् प्रस्तुतस्य यदन्यत्वं यद्यर्थोक्तौ च कल्पनम् । 'कार्यकारणयोर्यश्च पौर्वापर्यविपर्ययः । विज्ञेयाऽतिशयोक्तिः सा' .. -इति काव्यप्रकाशकारः 'अध्यवसितप्राधान्ये त्वतिशयोक्तिः' इत्यलकारसर्वस्वकारः । 'अध्यवसितसिद्धत्वं प्रकृतस्यान्यत्वकल्पनं यद्वा । संबन्धासंबन्धौ तद्व्यत्यासे भवेदतिशयोक्तिः ॥'. इति विद्याधरः । 1 ' कार्यकारणयोर्यत्' इत्यतः 'उपमानस्य निर्देशो' इत्यन्तो भागः 'न' प्रतौ 'आ' प्रतौ च लुप्तः ।
SR No.023454
Book TitleAlankar Raghavam Part 02
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1991
Total Pages348
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy