________________
280
अलाकारराषवे
स्वादावतिव्याप्तिनिरासः। अत एव न कैशिक्यादिवृत्तिष्वतिव्याप्तिः। न च दोषाभावादिरूपगुणेष्वव्याप्तिः। तत्राप्युक्तलक्षणत्वात् । न च गुणमेलके अतिव्याप्तिः। 'तस्य गुणधर्मत्वेन रसधर्मत्वाभावात् ।
ते च गुणाः
श्लेषप्रसादसमतामाधुर्यसौकुमार्यार्थव्यक्त्युदारत्वकान्त्युदात्ततौज स्सुशब्दतः प्रेयान्औजित्यविस्तरसमाधिसौक्ष्म्यगाम्भीर्यसलेयभाविक. संमितत्वप्रौढिरीत्युक्तिगतिभेदात् बहुविधाः। अत्र माधुजिप्रासदा. स्त्रयः दोषभावरूपगुणाश्च मुख्यगुणाः। गुणत्वजातिरेव मुख्यगुणलक्षणम् । 'न च आत्माश्रयः । वृत्त्यलङ्कारपाकादिव्यावृत्तो रसाभिव्यञ्जकनिष्ठो जाति विशेपोवा गुणत्वमिति निर्वचनात् । न च दोषाभावे अतिव्याप्तिः। तस्याभावरूपत्वेन तत्र जातेरनङ्गीकारात् । न च दोषरूपगुणेषु गुणत्व जात्यङ्गीकारे गुणत्वदोषत्वयोम्सकरापत्तिरिति वाच्यम् । अन्यत्र दोषस्य सतोऽन्यत्र गुणत्वाङ्गीकारेण गुणत्वदशायां ढोषलाभावेन तदनापत्तेः। सौकुमायोंदिषु दोषाभावरूपतया गुणत्वमौपचारिकम् । तथा हि-श्रुतिकटुरूपदोषामावतया सौ कुमार्य प्राम्यदोषाभावरूपतया कान्तिः अपुष्टार्थाभावरूपतयार्थव्यक्तिः न्यूनाधिकाभावरूपतया सम्मितत्वं अनुचितार्थाभावरूपतया उदात्तता विसन्ध्यभावरूपतया औनित्यं पतत्प्रकषोभावरूपतया रीतिः क्लिष्टाभावरूपतया प्रसादः अश्लिष्टामावरूपतया उक्तिः च्युतसंस्काराभाव.
1 तस्य कर्मस्वेन रसधर्मत्वाभागत्-म ' न च आत्माश्रयः शङ्कनीयः-त ३ अश्लीलाभावरूपतया-त