________________
278
अलङ्कारराघवे
च मेलकातिरिक्तमेलकोभावशयशङ्कः। एकैकगुणऽपि मेलकवृद्धिप्रसङ्गात् । न च अनेकगुणा एव मेलका इति वाच्यम् । विशकलितगुणेष्वपि मेलकबुद्धिप्रसङ्गात् । न च एकाश्रयाश्रितानेकगुणेषु मेलकशब्दप्रयोग इति वाच्यम् । गुणानामेकाश्रयसम्बन्ध एव मेलकः प्राप्त इति तत्रैव अतिव्याप्तिदुर्वारत्वात् । किञ्च दोषामावगुणेष्वतिव्याप्तमिदं लक्षणद्वयम् । तेषामपकर्षाभावे प्रयोज. कत्वेन उत्कर्षहेतुत्वाभावात। न चैपिकर्षाभाव एव उत्कर्षः। तत्र तथा व्यवहारामावात्। किञ्च हेतुतावच्छेदकं किञ्चिदस्ति वा न वा। नान्त्यः । तदभावे हेतुत्वस्यैव दुहत्वेन अज्ञानासिद्धिप्रसङ्गात् । आये तत् किं गुणत्वम् अन्यद्वा । नायः । आत्माश्रयप्रसङ्गः। अन्त्ये लाघवात् तदेव लक्षणमस्तु किमनेन ! अत एव नोक्तलक्षणत्रयमपि युक्तम्। दोषाभावरूपगुणेष्वव्याप्तेरेव। ननु मुख्यलक्षणमेवेवमिति चेन्न। पाकेऽज्याप्तेः ।
___ तस्य रसास्वावप्रम रूपत्वेन तदुस्केपहेतुत्वात् । किश्च को वा रसोत्कर्षो नाम ? रसस्योपचयो वा ! अभिव्यक्तिविशेषी वा ! सजातीय. विजातीयानभिभवो वा ! जातिविशेषो बा! वैद्यान्तेरमिति निरासो वा ! माद्यः। तस्य नित्यत्वेन अवयवंसंश्लेषाभावात्। ने द्वितीयः। विभावादिपतिव्याप्तः। न तृतीयः। स्थायिभावस्थायित्वधर्मेऽतिव्याप्तेः। तस्य
1 आत्माश्रयप्रसङ्गात्-त
मुख्यलक्षणगुणमेवेदमिति चेन्न-न 3 रूपत्वे-म
* कोऽयंत