________________
256
अलङ्कारराघवे
'तथैव चान्तश्रितपातकानां
विभक्ततुष्टयै हर दोषमेतम् ॥ २४६ ।। __ अत्र विभक्ततुष्यै हर दोषमेत दोषमन्योन्याश्रयरूपं हरेति वियुक्तवाचकत्वेन प्रसिद्धस्य भक्तपरत्वेन प्रयुक्तत्वात् अन्यार्थत्वम् ॥
भक्ततुष्टथै इति सम्यक् पाठः ॥ १२) अश्लीलं त्रिविधम् । अमङ्गलं 'बीडाकरं जुगुप्साकरश्चेति । i) तत्रामङ्गलं यथा
. हर मादृशदासानां राम चेतसि पातकम् । न युज्यते तवोपेक्षा श्राद्धपूजाकृतां नृणाम् ॥ २४७ ॥ अत्र श्राद्धपदममङ्गलम् ।
अत्र भक्त्या पूजाकृतामिति सम्यक् पाठः ॥ ii) ब्रीडाकरं यथा
मनो यन्मैथुनं तत्र सीतया सहितस्य ते। जातु स्मरति तत्पापं क्षणाईदह्यते भवान् ॥ २४८ ।। अत्र मैथुनमित्यनेन सुरतप्रतीतेः ब्रीडाकरत्वम् ।।
मनो यत्प्रणिनामिति सम्यक् पाठः । iii) जुगुप्साकरं यथा
1 तयैव: वीलाकर-म