________________
254
अलङ्कारराघवे
यथा
विभिन्नदोषानुगमस्य भानीः । .. कुलेऽवतीणों रघुनायक त्वम् । दोषानुषङ्ग हरमामकं तत्
वामो हि पुंसः स्वकुलामुसारः ॥२४२ ।। अत्र वामपद सुन्दरवक्त्रार्थयोस्सन्दिग्धम् ।
युक्तो हि पुंसः स्वकुलानुसार इति सम्यक् पाठः । ८) पदादतिदूरावगतिः 'क्लिष्टम् ।। यथा
मयार्जितानि पापानि रामचन्द्र निवर्तय । श्रीशार्धमन्दिरोल्लासहेतुद्योतस्तमो यथा ॥२४३ ॥
अत्र श्रीशो विष्णुः तस्यार्द्ध दाराः। लक्ष्मीः इति यावत् । अर्थो वा एष आत्मा यत्पनीति श्रुतेः। तस्या मन्दिरं पद्मं तदुल्लासस्य हेतुद्योतः प्रकाशसूर्यः प्रतीयत इति क्लिष्टता ॥
पद्मबन्धुर्यथा कृष्णपक्षगाढतमं तमः इति सम्यक् पाठः ।। ९) अप्रसिद्धार्थ गूढार्थम् ॥ यथा
1 (i) क्लिष्टं यतोऽप्रतिपत्तिः व्यवहिता ॥ (का. प्र. ७ उ.) __(ii) क्लिष्टं तदर्थावमतिर्दूरदूरायतो भवेत् । (प्र. रु. दोषप्रकरणम्) - तस्या मन्दिर तदुल्लासस्य-म । 3 (i) प्रयुक्तमप्रसिद्धार्थे गूढार्थ परिकीर्यते । (प्र. रु. दो. प्र.) (ii) निहतार्थं यत् उभयार्थ अप्रसिद्धऽर्थे प्रयुक्तम् (का.प्र.७उ.)