SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ xxiii सञ्जातं स्फुटमञ्जनापरिणमद्गर्भान्तरालान किश्चिद्वत्तु वरेण्यमस्तु सततं वः श्रेयसे भूयसे । मार्ताण्डग्रसने प्लुतिं कृतवतो यस्य प्रचण्डात्मनः तेजोवैभवसम्भवेन भुवने सर्व विधूतं तमः ॥ इति । अस्य काल: असौ ग्रन्थकृत् स्वकीये अन्थे दण्डी-रुद्रट-वामन-मम्मट-रुय्यकराजशेखर- विद्यानाथ-विद्याधरादीनां नामान्युल्लिखति । मम्मटादीनामलङ्कारलक्षणान्यनूद्य विमृश्य खण्डयति । तत्र तत्र रसार्णवसुधाकरकारस्य शिनभूपालस्य साहित्यचिन्तामणिकारस्य वीरनारायणस्य च मतान्नुद्य खण्डयति । केषुचिदलकारेषु मम्मटविद्यानाथादीनां लक्षणान्यपि अङ्गीकरोति । प्रतापरुद्रीयरत्नापणव्याख्यातुः कुमारस्वामिनः टीकामपि विशेषतः अनुसरति । अत एव एतेभ्योऽप्यर्वाचीनोऽयमिति प्रतिभाति । वीरनारायणानन्तरं स्थितानामालङ्क रिकाणां नामानि न सूचयत्ययम् । अतः वरनारायणान्तरमयं भवेदित्यूह्यते। वीरनारायणेन 'साहित्यचिन्तामणिः' नामकः ग्रन्थः रचितोऽस्ति । सोऽप्यप्रकटित एवास्ति मधुनाऽपि । वीरनारायणम्य समयः क्रि.श. पञ्चदशशताब्द्याः अदिभागः इति विद्वद्भिः निश्चितः । अस्य यज्ञेश्वर. 1 Sahityacintamani by Viranarayana. (catalogus Catalogorum, Part-I p. 715) साहित्यचूडामणि (it is called as साहित्यचिन्तामणि ) in D.C. xxii. 8708 mys 304) is ascribed to Viranarayana who lived in the begining of the 15th century A.D. (History of Classical Sanskrit Literature by M. Krishnamachari, p. 800)
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy