SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ xxii ४) वाक्पूजयालंकृतिराघवाख्यया मदीयया दुष्करयान्यपण्डितैः। सलक्ष्मणोऽयं परिवारवेष्टितो . . प्रीणातु रामः सह सीतया सदा॥ इत्युक्तवान् । एतेन परमात्मनि सीतारामे अचञ्चला भक्तिरासीदस्येति निश्चितं भवति । एतस्मादेव कारणादयं सर्वाण्युदाहरणानि रामपरत्वेनैव रचयामास । नायकगुणवर्णनसमये-रामं स्तौति रामचन्द्रसुगुणानुवर्णने संत्रसन्ति निगमाञ्चलान्यपि। भारती मम कथं प्रवर्तते तत्र मेऽतिमहदेव साहसम् ॥ इति । नायकप्रकरणसमाप्तौ रामप्रशंसम् एवं करोति । श्रीरामचन्द्रं स्वकृतेः कवीशः यो नायकं नायकमातनोति । स एव सैवात्र कृतिश्च धन्या तस्यैव लोके सफलं च जन्म ॥ इति । एषः यज्ञनारायणः रामभक्तस्य हनूमतः अनन्यभक्तोऽप्यासीत् । अत एव भस्य ग्रन्थस्य आरम्भिकं मालपद्य हनुमत्संबन्धि एवं विद्यते । तयथा
SR No.023453
Book TitleAlankar Raghavam Part 01
Original Sutra AuthorN/A
AuthorYajneshwar Dikshit, T V Sathynarayana
PublisherOriental Research Institute
Publication Year1997
Total Pages354
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy