________________
172
अलस्कारराघवे
कणादशास्त्रप्रसिद्धया द्रव्यादित्रयवाचकार्थशब्दवत् अलङ्कारशास्त्रप्रसिद्धया स्तम्भादिष्वेव सात्त्विकव्यवहार इति वर्णयन्ति । एतेन स्तम्भादयोऽनुभावलक्षणलक्षितत्वात् अनुभावा एव किन्न स्युरिति शहापि निरस्ता भवति । अनुभावानामुक्तविधसत्वजन्यत्वाभावात् । तदुक्तं भावप्रकाशे
परस्य सुखदुःखादेरनुभावेन चेतसः। अत्यन्तेनानुकूल्येन येन तद्भावभावनम् ॥ . तत्सत्त्वं तेन निवृत्तास्सात्त्विका इत्युदीरिताः । अनुभावत्वसामान्ये 'सत्वेऽप्येषां पृथक्तया ॥ लक्षणं सत्त्वजत्वाद्धि ते च स्तम्भादयस्स्मृता ।
इति।
अथ व्यभिचारिस्वरूपं निरूप्यते। 'विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः । ते च निर्वेदग्लानिशङ्कास्यामदश्रमालस्यदैन्यचिन्तामोहस्मृतिधृतिम
1 सत्यप्येषां-त ' (i) विशेषादाभिमुख्येन चरन्तो व्यभिचारिणः। स्थाथिन्युन्मग्ननिर्मग्ना कल्लोला इव वारिधौ ]
(दशरूपकम्-प्र.४-७) (ii) व्यभी इत्युपसर्गों द्वौ विशेषाभिमुखत्वयोः ।
विशेषेणाभिमुख्येन चरन्ति स्थायिन प्रति ।। वागङ्गसत्त्वयुक्ता ये ज्ञेयास्ते व्यभिचारिणः । सञ्चारयन्ति भावस्य गति सञ्चारिणोऽपि ते ॥ उन्मज्जन्तो निमज्जन्तःस्थायिन्यम्बुनिधाविव । ऊर्मिवद्वर्धयन्त्येनं यान्ति तद्रूपतां च ते ।।
(रसार्णवसुधाकरः-द्वितीयो विलासः १-३)