________________
३.४८] तृतीयोन्मेषः
२०३ ल्पना)यां तथाविधशब्दवाच्यत्वस्य धर्मसाम्यस्य चोभयनिष्ठत्वादुभयो: प्रकृतत्वात् । प्रस्तुताप्रस्तुतयोरेव तयोः धर्मादेकस्य यथारुचि केनापि विवक्षि(तधर्मान्त) रेण “अन्यथास्थिते:” अन्यथाभावेनावस्थिते: “व्यतिरेचनं”-पृथक्करणं “अन्यस्मात्” उपमेयस्योपमानात्, उपमानस्य वा तस्मात् । सः “व्यतिरेक:” व्यतिरेकनामा अलंकारो “ऽभिधीयते” कथ्यते । किमर्थं- “प्रस्तुतोत्कर्षसिद्धये”, “प्रस्तुतस्य” वर्ण्यमानवृत्ते: “ उत्कर्षसिद्धये" छायातिशयनिष्पत्तये। स द्विविधः संभवति “शाब्दः प्रतीयमानो वा” =“ शाब्दः” = कविप्रवाहप्रसिद्धः तत्समर्पणसमर्थाभिधानेनाभिधीयमानः । “प्रतीयमानः” =वाक्यार्थसामर्थ्यमात्रावबोध्यः । तत्र प्रथमतारतम्यादुपमाव्यतिरेको यथा
एमेअ जणो तिस्सा देइ कवोलोवमाइ ससिबिंबम् । परमत्थविआरे उण चन्दो चन्दो विअ वराओ ॥१८१ ।। एवमेव जनस्तस्या ददाति कपोलोपमायां शशिबिम्बम् ।
परमार्थविचारे पुनश्चन्द्रश्चन्द्र इव वराकः ।। (छाया) यथा वा
दिदृक्षव: पक्ष्मलताविलासमक्ष्णां सहस्रस्य मनोहरं ते । वापीष नीलोत्पलिनी-विकासरम्यासु नन्दन्ति न
षट्पदौघाः ॥ १८२॥ यथा वा
प्राप्तश्रीरेष कस्मात् पुनरपि मयि ते मन्थखेदं विदध्यात् निद्रामप्यस्य पूर्वामनलसमनसो नैव संभावयामि । सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयातः