________________
वक्रोक्तिजीवितम्
[३.४८
द्वितीयस्य यथा
येन ध्वस्तमनोभवेन बलिजित्कायः पुरास्त्रीकृतः यश्चोत्तभुजङ्गहारवलयो गङ्गां च योऽधारयत् । यस्याहुः शशिमच्छिरोहर इति स्तुत्यं च नामामराः
पायात्स स्वयमन्धकक्षयकरस्त्वां सर्वदो-माधवः ।। १७८॥ तृतीयस्य यथा
मालामुत्पलकन्दलश्च विकचरायोजितां बिभ्रती नेत्रेणासमदृष्टिपातसुभगेनोद्दीपयन्ती स्मरम् । काञ्चीदामनिबद्धभङ्गि दधती व्यालम्बिना वाससा
मूर्तिः कामरिपोः सिताम्बरधरा पायादपायाज्जगत् ।। १७९।। असत्यभूतार्थ श्लेषोदाहरणं यथा
दृष्टया केशव गोपरागहृतया किचिन्न दृष्टं मया तेनैव स्खलितास्मि नाथ पतितां किं नाम नालम्बसे । एकस्त्वं विषमेष खिन्नमनसां सर्वाबलानां गतिः
गोप्येवं गदितः स लेशमवताद्गोष्ठे हसन्त्या हरिः ।। १८० ॥ एवं वाक्यबन्धवैचित्र्यशक्तबुद्धिविरचितं चर्वणीयं श्लेषमभिधाय, साम्यैकनिबन्धनत्वादुपमारूपकश्लेषकारणैकं व्यतिरेकमभिधत्ते
सति तच्छन्दवाच्यत्वे धर्मसाम्येऽन्यथास्थितेः । व्यतिरेचनमन्यस्मात् प्रस्तुतोत्कर्षसिद्धये ।
शाब्दः प्रतीयमानो वा व्यतिरेकोऽभिधीयते ॥४८॥ सतीत्यादिः । स चासौ शब्दश्चेति विगृह्य तच्छब्देन शक्त्या श्लेषनिमित्तभूतः शब्दः परामृश्यते, तस्य “वाच्यत्वे” अभिधेयत्वे “सति” “धर्मसाम्ये” परस्परपरिस्पन्दसादृश्ये विद्यमाने, (विक