________________
३.४१]
१८७
तृतीयोन्मेषः स्यादित्यभिधीयते, तत्रतदपि नोपपद्यते। कस्मात् – “प्राधान्यस्य” = परितो मुख्यभावस्य "निवर्तनात्" । यस्माद्भषणत्वे सति पराङ्गत्वमेव । तेन वस्तुनः प्राधान्यं निवर्तते । मुख्यं हि वस्तु येनैव रूपेण प्राधान्यमनुभवति, न तेनैव पराङ्गत्वमनुभवितुमहति, रूपान्तरं विना परस्परविरुद्धयोरेकत्रानुपपत्तेः । __ यदि वा राजानुचरादावेकस्मिन् मुख्यत्वं गुणभावश्च संभवतीत्यभिधीयते, तत्र रूपद्वयस्य संभवात्, तथा च राजानुचरेषु स्वाम्यपेक्षया भृत्यभाव: स्वभृत्यापेक्षया स्वामिभावश्चेति धर्मद्वयं विरुद्धव्यपेक्षाद्वितयलक्षणस्य रूपद्वयस्य विद्यमानत्वादुपपन्नमेव । तदेवमिहापि स्वरूपान्तरसद्भावे भूषणत्वं केन वार्यते। सत्यमेतत् । भूषणत्वं न वार्यते तुल्ययोगिताप्रकारत्वं पुनरपसार्यते इत्याह
वर्ण्यत्वमेषामथवा साम्यं यद्यतिरिच्यते ।
एतेषां प्रस्तुतानां सा भवत्युपमितिः स्फुटम् ॥४१॥ वर्ण्यत्वमित्यादि = "अथवा" इत्यनेन प्रकारान्तरस्योपपत्तेः । अवर्ण्यत्वेऽपि वर्णनीयभावे भवत्यप्यतेषां प्रस्तुतानां पदार्थानां यदि “साम्यं" = सादृश्यं कदाचिदतिरिच्यते = वर्ण्यमानत्वा दधिकतां प्रतिपद्यते । ततः किं स्यादित्यत्राह- “सा भवत्युपमिति: स्फुटम्” प्रकटा चासावलंकृतिः साम्यसमन्वयादिसंवादादुपमैव नान्या काचिदित्यर्थः । ___ तथा समुच्चितोपमायां – समुच्चितेन वर्ण्यमानतयाऽर्थेनाभिसंबध्यमाने सति समुच्चिता उपमा यस्यां सा तथोक्ता समुच्चितोपमा, तद्वत्तया तुल्यं वर्तते । उपमाभिधानमत्रोपमाने वर्तते न समुच्चितोपमायाम् ।
उपमानं प्रस्तुतत्वात् वर्णनीयं साम्यसमन्वयातिरेकात् अलं