SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ [२.९ वक्रोक्तिजीवितम् तदा जायन्ते गुणा यदा ते सहृदयैर्गृह्यन्ते । रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि ।। इति छाया। प्रतीयते इति क्रियापदवैचित्र्यस्यायमभिप्रायो यदेवं विधे विषये शब्दानां वाचकत्वेन न व्यापार:, अपि तु वस्त्वन्तरवत्प्रतीतिकारित्वमात्रणेति युक्तियुक्तमप्येतदिह नातिप्रतन्यते । यस्माद् व्वनिकारेण व्यङ्ग्यव्यञ्जकभावोऽत्र सुतरां समर्थितस्तत् कि पौनरुक्त्येन । ___ सा च रूढिवैचित्र्यवक्रता मुख्यतया द्विप्रकारा संभवति-यत्र रूढिवाच्योऽर्थ: स्वयमेव आत्मन्यत्कर्ष निकर्ष वा समारोपयितुकाम: कविनोपनिबध्यते, तस्यान्यो वा कश्चिद्वक्तेति । यथा स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्वलाका घना वाता: शीकरिण: पयोदसुहृदामानन्दकेका: कला: । काम सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सह वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव* ।।२७॥ अत्र 'राम'-शब्देन 'दृढं कठोरहृदय:' 'सर्वं सहे' इति यदुभाभ्यां प्रतिपादयितुं न पार्यते, तदेवंविधविविधोद्दीपनविभावविभवसहनसामर्थ्य कारणं दु:सहजनकराजपुत्रीविरह व्यथाविसंष्ठलेऽपि समये निरपत्रपप्राणपरिरक्षावचक्षण्यलक्षणं संज्ञापदनिबन्धनं किमप्यसंभाव्यमसाधारणं क्रौर्य प्रतीयते । वैदेहीत्यनेन जलधरसमयसुन्दरपदार्थसंदर्शनासहत्वसमर्पकं सहजसौकुमार्यसुलभं किमपि कातरत्वं तस्या: समर्थ्यते । एतदेव च पूर्वस्माद्विशेषाभिधायिन: 'तु'-शब्दस्य जीवितम् । विद्यमानधर्मातिशयाध्यारो पगर्भत्वं यथा तत: प्रहस्याह पुन: पुरंदरं व्यपेतभीभूमिपुरंदरात्मजः ।
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy