SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ १.३३] प्रथमोन्मेषः संनिवेशमहिमा लावण्यरूपो गुणः कथ्यते । यथा स्नानाद्रमुक्तेष्वनुधूपवासं विन्यस्तसायन्तनमल्लिकेषु । कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे बलमङ्गनानाम् ॥ ८५ ॥ अत्र संनिवेशसौन्दर्यमहिमा सहृदयसंवेद्यो न व्यपदेष्टुं पार्यते । यथा वा चकार बाणैरसुराङ्गनानां गण्डस्थली : प्रोषित पत्रलेखाः ॥ ८६ ॥ ४७ अत्रापि वर्णविन्यासविच्छित्तिः पदसंधानसम्पच्च संनिवेशसौन्दर्यनिबन्धना स्फुटावभासैव । एवं लावण्यमभिधाय आभिजात्यमभिधत्ते श्रुतिपेशलताशालि सुस्पर्शमिव चेतसा । स्वभावमसृणच्छायमाभिजात्यं प्रचक्षते ॥ ३३ ॥ एवंविधं वस्तु आभिजात्यं प्रचक्षते आभिजात्याभिधानं गुणं वर्णयन्ति । श्रुतिः श्रवणेन्द्रियं तत्र पेशलता रामणीयकं तेन शालते श्लाघते यत्तथोक्तम् । सुस्पर्शमिव चेतसा मनसा सुस्पर्शमिव । सुखेन स्पृश्यत इवेत्यतिशयोक्तिरियम् । यस्मादुभयमपि स्पर्शायोग्यत्वे सति सौकुमार्यात् किमपि चेतसि स्पर्शसुखमर्पयतीव । यतः स्वभावमसृणच्छायम् अहार्यश्लक्ष्णकान्ति यत्तद् आभिजात्यं कथयन्तीत्यर्थः । यथा ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी पुत्रप्रीत्या कुवलयदलप्रापि कर्णे करोति ॥ ८७॥
SR No.023451
Book TitleVakrokti Jivit Kuntakno Kavya Vichar
Original Sutra AuthorN/A
AuthorNagindas Parekh
PublisherGujarat Sahitya Academy
Publication Year1988
Total Pages660
LanguageGujarati
ClassificationBook_Gujarati
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy