________________
૪૬
वक्रोक्तिजीवितम्
[१.३२
कथ्यते भण्यते। अत्र पदानामसमस्तत्वं प्रसिद्धाभिधानत्वम् अव्यवहितसंबन्धत्वं समाससद्भावेऽपि गमकसमासयुक्तता च परमार्थः । 'आकृत'-शब्दस्तात्पर्ये विच्छित्तौ च वर्तते । उदाहरणं यथा
हिमव्यपायाद्विशदाधराणामापाण्डुरीभूतमुखच्छवीनाम् । स्वेदोद्गमः किंपुरुषाङ्गनानां
चक्रे पदं पत्रविशेषकेषु ॥८२॥ अत्रासमस्तत्वादिसामग्री विद्यते । यदपि विविधपत्रविशेषकवचित्र्यविहितं किमपि वदनसौन्दर्य मुक्ताकणाकारस्वेदलवोपबृंहितं तदपि सुव्यक्तमेव । यथा वा
अनेन साधू विहराम्बुराशेस्तीरेषु ताडीवनमर्मरेषु । द्वीपान्तरानीतलवङ्गपुष्पै
रपाकृतस्वेदलवा मरुद्भिः ॥८३।। अलंकारव्यक्तिर्यथा
बालेन्दुवक्राणि इति ।। ८४ ।। एवं प्रसादमभिधाय लावण्यं लक्षयति
वर्णविन्यासविच्छित्तिपदसंधानसंपदा । स्वल्पया बन्धसौन्दर्य लावण्यमभिधीयते ॥३२॥ बन्धो वाक्यविन्यासस्तस्य सौन्दर्य रामणीयकं लावण्यमभिधीयते लावण्यमित्यच्यते । कीदृशम्-वर्णानामक्षराणां विन्यासो विचित्रं न्यसनं तस्य विच्छित्तिः शोभा वैदग्ध्यभङ्गी तया लक्षितं पदानां सुन्तिङन्तानां संधानं संयोजनं तस्य सम्पत, सापि शोभव, तया लक्षितम् । कीदृश्या-उभयरूपयापि स्वल्पया मनाङ्मात्रया नातिनिर्बन्धनिमितया । तदयमत्रार्थः - शब्दार्थसौकुमार्यमुभगः