________________
प्राकृतस्य प्राचीनाचार्याः
_ “प्राकृत कल्पतरु” तथा “प्राकृत सर्वस्व' ग्रन्थयोः प्राकृतस्य प्राचीनाचार्याणाम्, अज्ञात अल्पज्ञात च आचार्याणाम् मतानाम् परिचयः लभ्यते। (१) अनिरुद्ध भट्टः
आचार्य मार्कण्डेयस्य अनुसारेण "दाक्षिणात्या" इत्यस्य लक्षणं उदाहरणं कुत्रापि न उपलभ्यते। अस्मिन् प्रसङ्गे “अनिरुद्ध भट्ट" स्य दाक्षिणात्य काव्यस्य लक्षणमनेन प्रकारेण उद्धृतम्
"दाक्षिणात्यपदालम्वि संस्कृताङ्ग विजृम्भितम्
काव्यं पीयूषनिष्यन्दि दाक्षिणात्यमितीरितम्॥" (२) कपिलः
मार्कण्डेय आचार्येण उक्तं “ग्रह" धातुः सर्वत्र शौरसेनी प्राकृते "गेण्ह' रूपे परिवर्तते, परन्तु कपिलस्य मतेन “क्त", "क्तवतु" तथा "तव्य" प्रत्यानाम् योगेन “गेह" न आदिश्यते (पृ. ९४) फलतः "गेण्हिदं” इति स्थाने “गहिदं” तथा “गेण्डिदव्वं स्थाने “गहिदव्वं" भवति। (३) कोहलः
"मागधी" प्राकृतस्य नाटकीय प्रयोगे अस्य मतमुल्लिखितम् (पृ.