________________
कारकविवरणम्
केचिदुक्तस्थले षष्ठी कर्मण्येव न कर्तरि । यथाऽऽश्चर्यो गवां दोहोऽगोपालेनेत्युदाहरन् ॥ १० ॥ . षष्ठी ज्ञेया किल्पेन गौणात्कृत्वस्य कर्तरि । १ लोकेन मुक्तिकामेन सेवनीयो जिनेश्वरः ॥ ११ ॥ कृत्यो यदा भवेत्षष्ठ्या निमित्तः कर्तृकर्मणोः । नोभयत्र तदा षष्ठी प्रच्छयो धर्म जनैर्मुनिः ॥ १२ ॥ कस्वानशतृणकचस्तृन्नुदन्ताऽव्ययाऽतृशः। डिखलाश्चेत्येतेषां कृतां षष्ठी च नोभयोः २ ॥ १३ ॥ चारित्रं चरिता जिष्णू रिपून् कृत्वा तपो महत् । विद्वांस्तत्त्वं स्मरन् मन्त्रं सासहिश्च परीषहान् ॥१४॥ घातिकर्माणि निघ्नानः कारको भक्संक्षयम् । यस्तेन सुलभो मोक्षोऽधीयतामानि साधुना . . ॥१५॥ वर्तमानात्तथाऽऽधारादन्यार्थे विहितौ यकौ । तक्तवतू तयोः कर्मकोंः षष्ठी न जायते ॥ १६ ॥ दीक्षाऽऽत्ता नेमिना बाल्याप्रभृति ब्रह्म पालितम्। तीर्थोद्धारं स कृतवान् ज्ञातमद्याऽपि देहिनाम् ॥ १७ ॥ नपुंसके कृतः क्तो यः षष्ठी वा तस्य कर्तरि ।
१ षष्ठीविकल्यातृतीयाऽत्र बोध्या । षष्ठ्यां तु लोकस्येत्यादिरूपेण प्रयोगः । २ कतृकर्मणोरित्यर्थः ।