________________
कारक विवरणम्
वैषयिकाधिकरणानीति न पृथगौपचारिकमधिकरणम् । एवञ्च त्रिविध
मेवाऽधिकरणम् । यदुक्तम् —
" माधारस्त्रिविधो ज्ञेयः कटाऽऽकाशतिलादिषु । पश्लेषिको वैषयिकोऽभिव्यापक एव चे " ति ॥ १ ॥
षट्प्रकारोक्तिस्तु शिष्यबुद्धिवैशद्यार्थः ॥ ६६ ॥
अथ सप्तमीविषये विशेषः सङ्गृह्योच्यतेगौणानाम्नोऽधिकरणे विभक्तिः सप्तमी भवेत् । इच्छुम गुरौ वासं कुर्याज्जन्मनि संयतः सप्तमी वाऽधिकरणे गौणतः कालवाचिनः । वारार्थप्रत्ययान्तेन युक्ताद् भुङ्क्ते द्विरहून्यसौ कुशलाऽऽयुक्तशब्दाभ्यामन्विताद् गौणनामतः । आधारे सप्तमी वा स्यादासेवा यदि गम्यते कुशलो विद्याग्रहणे आयुक्तश्च व्रते मुनिः । १ आधारत्वाऽविवक्षा नाssसेवावारार्थयोः परे स्वामीश्वराधिपतिभिदीयादध्वनिना तथा । साक्षिप्रतिभूप्रसूत गणाद्वा सप्तमी युतात् वीरः स मुनिषु स्वामी साक्षी तत्राऽऽगमो मतः । वीरे सङ्घोऽस्ति दायादो मुक्तौ च प्रतिभूर्जिनः
॥ १ ॥
॥ २ ॥
॥ ३॥
॥ ४॥ ·
11 149 11
॥ ६ ॥
१ विवक्षाभेदेनैव विकल्पेन सप्तमीसिद्धौ विशिष्य तद्विधान प्रयोजनमाहआधारत्वेत्यादि । परे परत्र, कालवाचिभिन्नस्थले कुशलाऽऽयुक्तशब्द युक्तनामभिन्नस्थले चेत्यर्थः ।