________________
कारकविवरणम्
वस्तुतस्त्वीदृशस्थले गङ्गादिशब्दैस्तत्समीपदेशादिरेवोच्यते लक्षणया । अन्यथा घोषादेः स्थित्यादिक्रियाश्रयस्य गङ्गासमीपदेश एवं सत्त्वाद् गङ्गादीनामधिकरणत्वमेव न स्यात् , तेषां तादृशक्रियायां सव्यापारत्वाऽभावात् । न च सामीप्यात्तदुपर्यत इत्यपि युक्तम् । तथा सति तत्रैपचारिकाधिकरणत्वमेव स्यान्न तु सामीप्यकाधिकरणत्वम् । एवञ्च गङ्गादिपदेभ्य ईदृशस्थलेष्वौपश्लेषिकाधिकरण एव सप्तमीति न सामीप्यकमधिकरणमस्तीति ॥ ६५ ॥
औपचारिकाधिकरणमाहभवेद्यदुपचारात्तदौपचारिकमुच्यते । अङ्गुल्यग्रे करिशतमास्ते यद्वत्प्रकीर्त्यते ॥६६॥
उपचारादिति । उपचारं हेतुमपेक्ष्येत्यर्थः । अधिकरणमिति प्रकरणालभ्यते । उपचारश्चाऽन्यत्राऽवस्थितस्याऽन्यत्राऽऽरोपः । औपचारिकमिति । उपचारे भवम् , अध्यात्मादित्यादिकम् । उदा. हरणमाह-अङ्गुल्यग्र इति । अत्राऽगुल्यप्रादौ करिशताऽवस्थानाद्यसम्भवात्केनाऽपि प्रयोजनादिना करिशतादावमुल्यमादिस्थत्वमुपचयेते इति भवत्यमुल्यग्रादिरौपचारिकमधिकरणमिति । अत्राऽप्यनुल्यग्रादिशब्देन करिशताद्यधिष्ठितदेशादीनामेव लक्षणया बोधात्तदोपश्लेषिकमेवाऽधिकरणम् । तथा-'द्वेष्यः प्रतिवसत्यक्ष्णो हृदयें वसति प्रिय' इत्यादावपि द्वेष्यस्तदपकारविधित्सया तत्कृतप्रतिविधित्सया तव्यापारनिरूपणेच्छादिना वा सदाऽक्षिविषय इव भवति, प्रियोऽपि च प्रियत्वात्सदा स्मृत्यादिविषय इति हृदयविषय इत्यक्षादीनि