SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ कारक विवरणम् ५७ दीयमानेन गृहगवादिना संयोगात्सम्बन्धाल्लब्धुः स्वामित्वलाभस्तदा सम्प्रदानतेत्यर्थः । त्यागः स्वस्वामित्व विसर्जनम् । एवं च रजकस्यांशुकं दत्ते इत्यादौ न वस्त्रे स्वस्वामित्वविसर्जनं दातुरिति न रजकस्य सम्प्रदानता । भाटकेन गृहं दत्ते विप्रस्येत्यादौ च भाटकहणेन गृहे स्वस्वामित्वविसर्जनं गम्यते, न च तावता तत्र विप्रस्य स्वामित्वं जायते, भाटकदानेन गृहोपभोग एव तदधिकारात्, तदेवमेतत्परिक्रयणमात्रम् । किञ्च भाटकग्रहणेन स्वामित्वविसर्जनस्य भाटकदानेन स्वामित्वस्य च स्वीकारेऽपि न तावता सम्प्रदानता, स्वामित्वस्य निवृत्तेरुत्पत्तेश्च निरुपाधिकाया एव सम्प्रदानप्रयोजकत्वस्येष्टत्वात्, ईदृशस्थले च तयोरनुपाधिकयोरभावात् । अत एव भाटकाऽदाने गृहं गृहपतेः, विप्रस्य तदुपभोगाभावश्च । एवञ्च परस्वामित्वोत्पत्तिपर्यन्ता स्वस्वामित्वनिवृत्तिदानमिह गृह्यत इति भावः । सूक्ष्मेक्षणविचक्षणास्तु नैतन्मन्यन्ते, अन्यत्राऽपि सम्प्रदानताया दर्शनात् । तथा च महाभाष्ये- 'न पापाय मतिं दद्यात्, खण्डिकोपाध्यायः शिष्याय चपेटां ददाती 'ति । नहि मतौ स्वस्वामित्वनिवृत्तिरिहेष्टा, न वा चपेटायां शिष्यस्य स्वामित्वम् । तस्मात् क्रियाद्वारा व्याप्यद्वारा वा श्रद्धादिजनितः सम्बन्धो येन कर्तुरिष्टस्तत् सम्प्रदानमित्येव सम्प्रदानलक्षणम् । रजकस्यांशुकं दत्त इत्यादौ च न रजकेन वस्त्रादिरूपव्याप्यद्वारा तादृशः सम्बन्ध इष्ट इति नाऽतिप्रसङ्गः । शिष्याय चपेटां ददातीत्यादौ च तथासम्बन्ध इष्ट इति नाव्याप्तिरपि । एवञ्च पत्ये शेते इत्यादावपि कारकविभक्तिरेव नतूपपदवि 8 -
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy