SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ कारक विवरणम् त्वात् । स च भिन्नक्रमः । बोधेत्यादौ णिगन्तानामिति शेषः । एकस्येति । १ मुख्यस्येत्यर्थः । उभयेोरिति । गौणमुख्ययोर्द्वयोरित्यर्थः । पर्यायेणेति २ शेषः । तदत्राऽयं निर्गलितोऽर्थः - णिगन्तानां बोधाऽऽहारार्थशब्दकर्मकाणामुभयोरपि कर्मणोः पर्यायेणोक्तत्वम्, तद्भिन्नानां तु मुख्यस्येति । तथा च कर्मण उक्तत्वविषये सङ्ग्रह श्लोक: " गौणे कर्मणि दुह्यादेः प्रधाने नीहृकृष्वहाम् । बुद्धिभक्षार्थयोः शब्दकर्मकाणां निजेच्छया । प्रयोज्यकर्मण्यन्येषां ण्यन्तानां ला (त्या) दयो मताः ॥ १ ॥ ३९ इति । मतान्तरे त्वन्येषामपि ण्यन्तानां निजेच्छयेति बोध्यम् । शब्दकर्मवतामिति । शब्दो जल्प एव कर्म - क्रिया व्याप्यं च तदस्त्येषामिति शब्दकर्मवन्तस्तेषाम् जल्पकर्मणां जल्पार्थानां चेत्यर्थः । यद्यपि " न कर्मधारयान्मत्वर्थीयो बहुव्रीहिश्चेत्तदर्थप्रतिपत्तिकर " इति वामनः । तथाप्यनरवन्ति चक्राणीतिवत्समाधेयम् । इति सतीति । एवं सतीत्यर्थः । बोधार्थादीनामुभयोः पर्यायेणोक्तत्व इति यावत् । उभयथा वाक्यमाह - शिष्यइत्यादिना । मुख्ये कर्मणि प्रत्यये शिष्यरूपान्मुख्यकर्मणः प्रथमा । गौणे तु प्रत्यये गौणात्कft मा । एवमन्यत्रापि बोध्यम् । ओदनक इति । स्वार्थे कः ॥ ४४ ॥ ४५ ॥ " १ नत्वन्यतरस्य, गौणमुख्ययो मुख्ये कार्यसंप्रत्ययात् । न चैकेयस्य मुख्यार्थलं नेति युक्तम्, एकोऽन्यार्थे प्रधाने चे 'ति कोशात् । २ सकृदुच्चरितस्य शब्दस्य सकृदर्थबोधकत्वनियमादिति बोध्यम् ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy