SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ कारक विवरणम् ग्रामादिकर्मणा सम्बन्धस्य स्पष्टमुपलम्भात् । तदेतत्सर्वं मनसि निधायोक्तं हरिणा ૨૮ विशेष कर्मसम्बन्धे निर्भुक्तेऽपि कृतादिभिः । विशेषनिरपेक्षोऽन्यः कृतशब्दः प्रवर्त्तते " || 9 || " अकर्मकरवे सत्येवं क्तान्तं भावाऽभिधायि तत् । ततः क्रियावता कत्रा योगो भवति कर्मणाम् ' "" ॥ २ ॥ अविग्रहा गतादिस्था यथा ग्रामादिकर्मभिः । क्रिया सम्बध्यते तद्वत्कृतपूर्व्यादिषु स्थिता " << ॥ ३ ॥ इति । अधिकम वक्ष्यते । ननु णिगन्तस्योक्तरीत्या द्विकर्मकत्वात्ततः कर्मणि प्रत्यये सति कस्य कर्मण उक्तत्वमित्याकाङ्क्षायामाह - एकस्याऽथवा धातोर्द्विकर्मणः ॥ ४३ ॥ उभयोरप्युक्तत्वं बोधाऽऽहारार्थशब्दकर्मवताम् । इति सति शिष्यो धर्म शिष्यं वा बोध्यते धर्मः ||४४ ॥ अतिथि भोज्यत ओदनमतिथिं वा भोज्यते त्वयौदनकः । शिष्यो ग्रन्थं पाठ्यत इति शिष्यं वाऽपि, पाठ्यते ग्रन्थः ॥ ४५ ॥ एकस्येति । द्विकर्मणो धातोरेकस्य, अथवा बोधाऽऽहारार्थशब्दकर्मवतामुभयोरप्युक्तत्वमित्यन्वयः । द्विकर्मण इति णिगन्तस्येत्यर्थः । द्विकर्मकेषु दुहादिषूक्ताऽनुक्तत्वव्यवस्थायाः पूर्वमेव प्रतिपादितत्वात्प्रकरणाच्चेति बोध्यम् । अथवेति तथेत्यर्थे, निपातानामनेकार्थ
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy