SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ भद्रकरोदयाख्यवितिसहिता दानं नाम स्वस्वास्वपरित्यागः । परस्वत्वापादनं चेति । तत्र किं स्वस्वत्त्वे विद्यमाने परस्वत्त्वमापाद्यते, (असति ३ का ।): सति । चेत् , तन्न । स्वस्वस्वपरस्वत्वयो विरोधात् । स्वस्वस्वं परित्यज्य परस्वत्त्वमापादयतीति चेत् , (न। ५) यत् किल येन परित्यक्तं तत्तदीयं ६ न भवति । अत औदासीन्यात्कथं परस्वत्वमापादयितुमुत्सहते ? । तदुक्तम् " स्वस्वत्वे विद्यमाने तु परस्वत्वं न विद्यते । त्यज्यते ७ सम्प्रदानं चेदौदासीन्यान्न सिद्धयति" ॥१॥ अत्रोच्यते-स्वस्वस्त्वपरित्यागोपक्रमः परस्वत्वाऽऽपादनपर्यवसानः समुदा (यो ददात्यर्थः ८)। स्वस्वत्त्वं परित्यजन् परस्वत्वमापादयतीति योऽर्थः स एव ददातिशब्दस्य । यदि ९ स्वस्वत्वपरित्यागमात्रं , भद्रकरोदया . औदासीन्यादिति । अयंभावः-इह किञ्चिद्वस्तु स्वकीय किन्चि. स्परकीयं किञ्चिच्चोदासीनमिति त्रिधा वस्तुस्थितिः । एवं च यत्र स्वस्वत्वं तत्र न परस्वत्वमिति स्वस्वत्वे परित्यक्ते तदुदासीनम् । तस्मिंश्च न परस्वत्वमापादयितुं शक्यम् । नहि यन्न स्वं तत्कस्मैचियमिति । सिद्धयतीति । त्यज्यते इत्यत्र स्वस्वत्त्वमित्यर्थबलाद्विभक्तिविपरिणामेन सम्ब १ ‘गर' क० । २ क० नास्ति । ३ क० नास्ति । ४ ‘अथ विद्यमाने तावन्न सम्भवति' क० । ५ क. नास्ति ,। ६ ‘तदेव यन्न' क० । ७ 'परित्यज्य सम्प्रदानमौ' इति क० । ८ 'दायार्थ' क० । ९ यदीत्यनन्तरं 'न पुनः' इत्यधिकः क० ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy