SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ भद्रङ्करोदयाख्यविवृतिसहिता करणमप्रधानम् । कता वितरनिरपेक्षः स्वसामर्थ्येन प्रवर्तत इति (प्रधानम् १)। धातुक्त २ क्रियावत्वाच्च कर्तुः प्राधान्यम् । नहि करणक्रिया धातुनोपादीयते । यदा चोपादीयते तदा करणं कर्त भवेत् । ( यथा ३ ) साध्वसिश्छिनत्ति । तदुक्तं मण्डन मिश्रेण करणं खलु सर्वत्र कर्तृव्यापारगोचरः ५ । तिरोदधाति कतारं प्राधान्यं तन्निबन्धनम् ॥ १ ॥ निरूपितं करणम् । विचारिता ६ तृतीया ॥ २ ॥ इदानीं ७ चतुर्थी निरूप्यते । का पुनरियं चतुर्थी ? ' भ्याम् भ्यस्' इति । तस्या ह्युक्तमेत ८ लक्षणम्-' चतुर्थी सम्प्रदाने' (पा०) इति । किं ९ तत्सम्प्रदानम् ?--' कर्मणा यमभिप्रेति तत् भद्रङ्करोदया हि प्राधान्यम् , तच्चोक्तरीत्या न कर्तुरित्यभिमानः । धातूक्तेति । अस्य प्रकृतेत्यादिः । उपादीयते इति । उच्यते इत्यर्थः । कर्तृव्यापारगोचर इति । कर्तृप्रयोज्य इत्यर्थः । तिरोदधाति व्यवदधाति । प्राधान्यमिति । कर्तुरिति लभ्यते, सामीप्यात् । १ क. नास्ति । 'प्राधान्यम् ' ग० । २ 'प्रधानधातूपात्तक्रियत्वाच्च । क० । ३ क० नास्ति । ४ 'मदन' क० । ५ 'रम्' क० , ६ अत:करणे निरूपिता' क० । ७ ‘इदानीमवसरप्राप्तं चतुर्थीनिरूपणम्' ग० । ८ ' पुनरिद' ग० । ९ 'पुनरिदं' क० ।
SR No.023434
Book TitleKarakmala
Original Sutra AuthorN/A
AuthorShubhankarvijay, Suryodayvijay
PublisherLakshmichand Kunvarji Nagda
Publication Year1961
Total Pages246
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy