________________
( ६६ )
॥ २- अथ शत्विकरणो भ्वादिगणः || आत्मनेपदं कृत्य-क्त - खलर्थाश्च प्रत्ययाः -सकर्मकाद् धातोः कर्मणि, अकर्मकादविवक्षितकर्मकाच्च भावे स्युः ॥ ' यण्-तव्य - अनीय-य- क्यप्' इति पश्च कृत्याः ॥१॥
इदितो ङितश्च धातोः कर्तर्यात्मनेपदं स्यात् ॥ ईदितो गितश्च धातोः फलवति कर्तर्यात्मनेपदं स्यात् ॥ शेषात् - आत्मनेपदनिमित्तादन्यस्माद् धातोः कर्तरि परस्मैपदं स्यात् ॥२॥ क्रियाsर्थो धातुः । “भू सत्तायाम्" अतः कर्तरि 'भू तिव्' इति स्थिते अदादिवर्जधातोः कर्तरि शिति 'शब्-अः' स्यात् ॥ इवर्णस्य -ए, उवर्णस्य - ओ, ऋवर्णस्य- अर् गुणः ॥ नाम्यन्तस्य धातोः अक्ङिति - कि- ङिवर्जे प्रत्यये पुसि पौ च गुणः स्यात् ॥ इति गुणे ओकारेऽवादेशे च भवति । अवित् शित् प्रत्ययः ङिद्वत् स्यात् ॥ शवि गुणे-भवतः, पूर्वाकारलोपेभवन्ति, भवसि भवथः, भवथ । मादौ वादौ च