________________
( ५६ ) रथ-युग-प्रासङ्गात् तं वहतीत्यर्थे यः स्यात्, धुरस्तु य एयण च । द्वौ रथो वहतीति-द्विरथ्यः, धुरं वहतीति-धुर्यः, धौरेयः ॥७॥
तत्र भवेऽर्थे अणादिः । ग्रामे भवः-ग्राम्यः ।।८।। 'क्व-इइ-अमा' इत्यस्मात्, 'त्र-तस्प्रत्ययान्ताच्च शेषेऽर्थे त्यच् स्यात् । क्व भवः-क्वत्यः, एवम्-इहत्यः, अमात्यः, तत्रत्यः, कुतस्त्यः ॥६॥ 'सायम्-चिरम्-प्राहे प्रगे' इत्यतःशेषेऽर्थे तनट् स्यात् । सायं भवः-सायंतनः,चिरंभवा-चिरन्तनी॥१०॥ 'तद् वेत्ति अधीते वा' इत्यर्थे अणादिः। छन्दो वेत्ति अधीते वा-छान्दसः, न्यायादेस्तु इकण् ।।११।। णिति तद्धिते इवोंवर्णयोर्वद्धिप्राप्तौ तयोरेव स्थाने यो य्वौ पदान्तौ ताभ्यां प्राक क्रमेण ऐ औच स्यात् । न्यायमधीते बेत्ति वा-नैयायिकः, स्वश्वस्यापत्य-सौवश्वः ॥१२॥
शेषेऽर्थे युष्मदस्मदः 'अञ् ईनन्' स्यात्, तद्योगेच क्रमेण 'युष्माक अस्माक एकत्वे तु 'तावक मामक'