________________
( ४६ )
नीलं च तत् उत्पलं च - नीलोत्पलम् ॥१॥ विशेष्यवशात् खीलिङ्गः नाम कर्मधारये उत्तरपदे परे पुंवत् स्यात्, ऊडन्तं तु न । रक्ता चासौ लता
च- रक्तलता ॥२॥
॥ इति कर्मधारयः ॥२०॥
॥ २१- अथ कर्मधारयविशेषो द्विगुः ॥ संख्यावाचि परेण नाम्ना कर्मधारयसमासः स्यात् संज्ञा - तद्धितयोर्विषये उत्तरपदे समाहारे चार्थे, अयमेव चासंज्ञायां द्विगुश्च । पञ्चाभ्राः, द्वैमातुरः, पञ्चगवधनः, त्रिपदी ॥१॥
॥ इति द्विगुः ॥२१॥
॥ २२- अथ द्वन्द्वः ॥
सहोक्तौ इतरेतरयोगे समाहारे चार्थे नाम नाम्ना समस्यते स च द्वन्द्वः । पार्श्ववीरौ ऋषभाऽनन्तधर्माऽराः ॥ १ ॥
लध्वक्षरं सखिवर्जेदुदन्तं स्वराद्यकारान्तम् अल्पस्वरं पूज्यवाचि चैकं नाम द्वन्द्वे प्राक् स्यात् । तृण