________________
दिकाम्यया यमभिसम्बध्नाति स कर्माभिप्रेयःसम्प्रदानम्, तत्र चतुर्थी। शिष्याय धर्ममुपदिशति, जिनाय नमति ॥६॥ तादर्थ्य चतुर्थी । मुक्तये तपः ॥७॥ 'शक्तार्थ-वषड्-नमस्-स्वस्ति-स्वाहा-स्वधा'शब्दयोगे नाम्नश्चतुर्थी। नमोऽर्हते, स्वस्ति श्रीविजयनेमिसूरये ॥८॥
सावधिकगमने अवधिः-अपादानम्, तत्र पञ्चमी। आगच्छति ग्रामात् ॥६॥ क्रियाश्रयस्य कर्तुः कर्मणो वा आषार:-अधिकरणम्, तत्र सप्तमी । कटे आस्ते, दिवि देवाः, तिलेषु तैलम् ॥१०॥ स्वस्वामिभावादिसम्बन्धरूपे शेषेऽर्थे षष्ठी स्यात्। राज्ञः पुरुषः ॥११॥ कृतः कर्मणि कर्तरि च षष्ठी। गवां दोहः, भवत आसिका, कृत्यस्य तु वा- तव त्वया वाच्यम् ॥१२॥ 'पृथक्-नाना'शब्दयोगे पश्चमी तृतीया च । पथक मैत्रात् मैत्रेण वा ॥१३॥