________________
(
४२
)
॥१६-अथ कारकप्रकरणम् ॥ नाम्नः प्रथमा । जिनः । आमन्त्र्येऽपि प्रथमा।हे जिन ! ॥१॥ का क्रियया यद् विशेषेणाप्तुमिष्यते तत् कर्म, कर्मणि च द्वितीया। जिनं वन्दे ॥२॥ 'समया-निकषा-हा-धिग्-अन्तरा-अन्तरेण-अतियेन-तेन'शब्दयोगे गोणान्नाम्नो द्वितीया। समया जिनमन्दिरम् ॥३॥
तसन्तेन सर्वोभया-ऽभि-परिणा योगे नाम्नो द्वितीया । गौणादिति सर्वत्र योज्यम् । सर्वतः श्रीविजयनेमिसूरि ख्यातिः ॥४॥ स्वतन्त्रः कर्ता। साधकतमं करणम् । कञ्चित् प्रकारं प्राप्तस्य चिह्नम्-इत्थम्भूतलक्षणम् । हेतु-कर्त-करणेत्यम्भूतलक्षणे तृतीया । धनेन, जिनेन उपदिष्टम्, तपसा कर्माणि हन्ति, अपि त्वं कमण्डलुना छात्रमदाक्षीः ॥५॥ कर्मणा-व्याप्येन क्रिययावा यमभिप्रेयते-अनुग्रहा