________________
( ३८ ) पूर्वमामन्त्र्यमसदिव । जना युष्मान् जिनोऽवतात MEN
॥ इति श्रीहेमचन्द्रिकायां युष्मदस्मत्प्रक्रिया ॥१३॥
॥ १४-अथाव्ययप्रकरणम् ॥ सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यत्र व्येति तदव्ययम् ॥१॥ स्वरादिरव्ययम् । स्वर् अन्तर् पुनर् प्रातर् इत्यादि ॥२॥
चादिरव्ययम् । च वा एव एवम् नूनम् इत्यादि। द्रव्ये तु न-चः शब्दः ॥३॥ चादिगतः प्रादिरव्ययम् । अस्योपसर्गसंज्ञागतिसंज्ञा च ॥४॥ प्रपरापसमन्ववनिर्दरभिव्यधिसूदतिनिप्रतिपर्यपयः । उप आङिति विशतिरेष सखे!