________________
( ३४ )
अमुष्यं ॥७॥
इति श्रीमचन्द्रिकायां व्यञ्जनान्तखीलिङ्गप्रकरणम् ॥११॥
॥ १२- अथ व्यञ्जनान्तनपुंसकलिङ्गप्रकरणम् ॥
जगत्, जगती । धुडन्तनपुंसकस्य शौ परे घुटः प्राग् नः स्यात् । जगन्ति । तुदत् ॥१॥ श्नावर्जात् अवर्णात् परस्य 'अतृ' स्थाने अन्तो वा स्यात्, 'ई- ङी' इति परे । तुदती, तुदन्ती । 'श्यशव' परस्य तु नित्यम् - दीव्यन्ती, पचन्ती । यत्, तत्, ब्रह्म, ब्रह्मणी ब्रह्माणि ॥२॥
क्लोबे आमन्त्र्यसौ परे नलुक् वा । हे ब्रह्मन् ! हे ब्रह्म ! | अहः, अह्नी, अहनी ॥३॥ 'अन्' शब्दनकारस्य पदान्ते रुः स्यात्, लुपि अरे तु - रः स्यात् । अहोभ्याम्, अहरधीते ॥४॥ शेषे त्रुटि अपो दीर्घः स्यात्, नागमे तु वा । पुंसि