________________
( ३२ ) अवर्णान्तादसो मात दो मः स्यात् ॥३६॥ अदसौ मात् परस्य वर्णस्य उवर्णः स्यात्, दीर्घस्य दीर्घः, ह्रस्वस्य ह्रस्वः । कार्यान्तरात् पश्चात्,इनादेशात् तु प्रागेव । अमू ॥३७॥ बहुवचने मात् परस्य एत ई स्यात् । अमी, अमुना, अमुभ्याम्, अमीभ्यः ॥३८॥
अनडुहः सौ हात् प्राग् नः। अनड्वान् हे अनड्वन् ! अनडुद्भ्याम् ॥३६॥ पदान्ते घुटि च परेह-ढ स्यात्। लिट्, लिड्, लिही ॥४०॥ घुटि पदान्ते च 'मुह, -ह-स्निह -स्नुह,'शब्दस्य ह-ढ वा स्यात् । भ्वादेर्दादेस्तु घः स्यात् । मुक्, मुट्, मुहौ । गोधुक्, गोधुक, गोदुहौ, गोधुक्षु, कषयोः क्षः ॥४१॥ ॥ इति श्रीहेमचन्द्रिकायां व्यञ्जनान्तपुंलिङ्ग
प्रकरणम् ॥