________________
(
२८
)
'यज्-सृज-मृज-राज-भ्राज-भ्रस्-वस्च-परिव्राजशान्त'धातोः-चस्य जस्य शस्य च षः स्यात् । शब्दं पृच्छतीति-शब्दप्राट्, सम्राट्, शब्दप्राशी, सम्राजी ॥६॥
अनुनासिके विपि धुडादिप्रत्यये च परे धातोः-छ -स्य शः, वस्य च ऊट् स्यात् ॥७॥ 'यभिन्नव्यञ्जनादौ सिति च प्रत्यये परे नाम पदं स्यात् । शब्दप्राभ्याम्, सम्राभ्याम् ॥८॥
धुटि पदान्ते च संयोगादिस्थस्य सस्य कस्य च लुक स्यात् । भृड्, भृजौ। मरुत्, मरुतौ ॥६॥ घुटि परे ऋदुदितो धुटः प्राक् नः स्यात् ॥१०॥ शेषे घुटि परे 'सन्त-महत्'स्वरस्य दीर्घः स्यात् । महान, महान्तौ ॥११॥
भ्वादिभिन्नस्य 'अतु-अस्' इत्यन्तस्य शेषे सौ दीर्घः स्यात् । भवान, भवन्तौ, पठन, पठन्तौ । 'म'शब्दस्य-मत्, मथौ ॥१२॥ सौ परे द्विपर्यन्तत्यदादिशब्दस्य तः सः स्यात् ।