________________
( १२६
)
हनोऽचिते कर्तरि 'टक-अ' स्यात् ॥ वातघ्नं तैल. म् ॥ ब्रह्मादिकर्मणः पराद हनः टक । ब्रह्मघ्नः ।। अर्हः 'अच-अ' स्यात् ॥ पूजाऱ्या प्रतिमा ॥ दण्डादिवर्जादायुधादेः कर्मणः पराद धृगोऽच् ॥ धनुधरः, भूधरः, दण्डधारः॥ हगो वयसि अनुद्यमे च गम्येऽच् ॥ अस्थिहरः श्वशिशुः, मनोहरा माला ॥ देव-वातात् आप इः, शकृदादेः कृग इः ॥देवापिः, वातापिः, शकृत्करिः ॥ 'कुक्षि-आत्मन्-उदर' इति कर्मणः भृगः 'खिः-'॥ कृक्षिम्भरिः, आत्मम्भरिः ॥ मन्यतेः 'णिन्-इन्' स्यात् । पण्डितमानी बन्धोः । प्रत्यार्थात् कर्तुः कर्मणः परात् मन्यतेः 'खश-अ' स्यात् ॥ स्वरान्तस्यानव्ययस्यारुषश्च खिदन्तोत्तरपदे मोऽन्तो गथासम्भवं ह्रस्वश्च ॥ पण्डितम्मन्यः, कालिम्मन्या ॥ एजेः वश ॥ अरि. मेजयः ॥ नाम्नो गमः 'खड्-ड-खा:-अ' स्यात, बिहायस्तु विहः॥तुरङ्गः, तुरगः, तुरङ्गमः, पिइंगः, विहगः, विहंगमः ॥५॥