________________
( १२५ )
अर्थविशेषोक्ति विना कृत् कर्तरि स्यात् ॥३॥ 'णक-तृचौ - अक-तृ' धातोः ॥ श्रावकः, कर्ता, एधिता । 'नाम्युपान्त्य प्री-कृ-रा-ज्ञा' इत्यतः 'क:अ' स्यात् ॥ बुधः प्रियः, किरः, गिरः, ज्ञः ॥ अच् धातोः ॥ करः, हरः ॥ नन्द्यादिभ्योऽनः ॥ नन्दनः ॥ ग्रहादिभ्यो णिन् - इन्' ।। आतो ञ्णिति कृति त्रौ च 'ऐ' स्यात् ॥ ग्रही, स्थायी ॥ घ्राध्मा-पा- ट्धेदृशः 'श: अ' स्यात् ॥ जिघ्रः, धमः, पिबः, उद्धयः, उत्पश्यः ॥ 'ज्वलादि-दु-नी भू-ग्रह- आस्रु' इत्यतो 'न:- अ' वा स्यात् ॥ ज्वलः, ज्वालः ॥४॥
कर्मणः पराद धातोः 'अण्-अ' स्यात् ॥ कुम्भकारः ॥ कर्मणः परात्' इत्यग्रेऽपि ज्ञेयम् ॥ आतो डोsह्वावाम:, नाग्! गोदः, तन्तुवायः ॥ संख्यादेः क्रुगः 'ट:- न स्यात् ॥ संख्याकरः, द्विकरः ॥ हेतुतच्छीला-नुकूले शब्द- श्लोक - कलह-गाथा-वैर-चादु-सूत्र-मन्त्र- पदवर्जात् कर्मणः परात् कृगः 'ट:-अ' ॥ यशस्करी विद्या, तीर्थकर, प्रेषणकरः, शब्दकारः ॥
"