________________
( १२२ )
दुहि पचि दण्डि - रुधि-ब्रू-चि-मथि मुषि-प्रच्छियाचि-शास्वर्थाः ।
नी - ण्यन्त-वहि- कृषयस्तदर्थकाश्च द्विकर्माणः ॥ १ ॥ कर्मणि प्रत्ययादुक्तिन्यदिर्मुख्ये दुहां परे । नीयतेऽजाऽमुना ग्रामं दुह्यतेऽनेन गौः पयः ॥ २ ॥ विहाय प्रेरणांशं चेत् कर्म कर्ता स्वयं भवेत् । सकर्मकस्तदाऽकर्मा पच्यते स्वयमोदनः ॥३॥ ॥ इति भाव- कर्मप्रक्रिया ॥ समाप्ता प्रक्रिया ||३३|| ३४- अथ त्याद्यर्थ निरूपणम् ॥. सति प्रारब्धेऽपूर्णेऽर्थे वर्तमाना ॥ अस्ति दिनम् ॥ १ ॥ विधि - निमन्त्रणा -ऽऽमन्त्रणाऽधीष्ट सम्प्रश्न- प्रार्थने सप्तमी पञ्चमी च स्याताम् || विधिः क्रियायां प्रेर णा, प्रेरणायामेव यस्यां प्रत्याख्याने प्रत्यवायः - तद् निमन्त्रणम्, यत्र प्रेरणायामेव प्रत्याख्याने कामचार:- तद् आमन्त्रणम्, यत्र प्रेरणैव सत्कारपूविका - तद् अधीष्टम्, संप्रश्नः - संप्रधारणा, प्रार्थनंयाच्ञा ॥ मुनिः पठेत् ॥२॥