________________
( १०२ )
शिष्ट, आशष्ट, आनशे, आनशिषे, आनक्षे ॥ इत्या
त्मनेपदम् ॥४॥
॥ इति स्वादिः समाप्तः ॥ २१ ॥
२२- अथ तानुबन्धस्तुदादिः ॥ तत्रोभयपदम् ॥
" तुदत् - तुद् व्यथने" तुदादेः कर्तरि शिति 'श:अ' ॥ तुदति, तुदते, अतौत्सीत्, अतुत्त ॥१॥ "भ्रस्जत् - भ्रस्ज् पाके" सस्य जयोगे शे तस्य तृतीये 'भ्रज्ज्' इति, ग्रह-व्रस्च भ्रस्ज- प्रच्छः क्ङिति सस्वरान्तस्था य्वृत् ॥ भृज्जति ४ । अशिति भृज्जो वा भर्जः ॥ अभार्क्षीत्, अभ्राक्षीत्, बभर्ज, बभर्जतुः, बर्भाजय, षत्वे बभष्ठ । पक्षे- बभ्रज्ज, बभ्रज्जतुः, भृज्यात्, भ्रज्यात् ॥२॥ "मुलूंती - मुच् मोक्षणे" मुचादि तृफ-हफ-गुफशुभोमः शे परे स्वरात् परो नोऽन्तः ॥ मुञ्चति ४, अमुचत्, अमुक्त | "षिचींत्-सिच् क्षरणे" सिश्चति, ह्वा-लिप्-सिचः कर्तर्यद्यतन्यामङ्, आत्मने तु