________________
( १०० ) १९-अथात्मनेपदम् ॥ "बुधिच-बुध ज्ञाने" अबोधि, अबुद्ध ॥"जनैचिजन प्रादुर्भावे" ज्ञा-जनोः शिति जाः स्यात्, न त्वनन्तरे तिवादौ॥जायते, अजनि, अजनिष्ट, जज्ञे। "दोपैचि-दीप दीप्तौ" अदीपि, अदीपिष्ट। "पूरचिपूर् आप्यायने" अपूरि, अपूरिष्ट ॥ इत्यात्मनेपदम् ॥
२०-अथोमयपदम् ॥ "मृषीच-मृष् तितिक्षायाम्"मृष्यते, मृष्यति॥१॥ "णहीच- नह, बन्धने" अनात्सीत्, अनाद्धाम, अनद्ध, अनत्साताम् ॥२॥
॥इत्युभयपदम् ॥२०॥ |॥ इति दिवादिगणः समाप्तः॥१७-२०॥ . २१-अथ टानुबन्धः स्वादिगणः ॥
तत्रोमयपदम् ॥ "पुंगट्-सु अभिषवे" स्वादेः कर्तरि शिति 'श्नुःनु' स्यात् ॥ सुनोति, सुनुते, सुन्वन्ति । असंयोगात्
-