________________
१-देवतत्त्वम् गा-३७, ३८, ३९
* सङ्घाचारभाष्ये-११, १४ * पूजां च कुर्वतो भगवतोऽवस्थात्रिकं भावनीयमिति पञ्चमं तत् त्रिकं पर्यायाभ्यामाह -
भाविज्ज अवत्थतियं पिंडत्थ-पयत्थ-रूवरहियत्तं ।
छउमत्थ-केवलित्तं सिद्धत्थं चेव तस्सत्थो ।। भावितार्था, ननु चपिण्डस्थं च पदस्थं च, रूपस्थं रूपवर्जितम् । ध्यानं चतुर्विधं ज्ञेयं, संसारार्णवतारकम्।।
इति चतुर्धा ध्यानवेदिभिर्ध्यानमुच्यते, अत्र त्ववस्थात्रिकेण ध्यानत्रयमुक्तम्, अतोऽत्र चतुर्थं ध्यानं कथं स्याद् ? उच्यते, रूपस्थध्यानं हि जिनबिम्बादिदर्शनतः प्रथममेव सञ्जायते, यत उक्तम् -
पश्यति प्रथमं रूपं स्तौति ध्येयं ततः पदैः । तन्मयः स्यात्तत: पिण्डे, रूपातीतः क्रमाद्भवेत् ।। इति स्यादेव यथोक्तध्यानसिद्धिः । अथ भव्यजनानुग्रहाय किञ्चिद् ध्यानचतुष्टयभावनोच्यते - पूजादिषु देहस्थं यथास्थमूर्ति जिनादिकं मनसा । तद्रूपं चात्मानं यद् ध्यायेत् तदिह पिण्डस्थम् ।। मन्त्रादिषु गुरुदेवस्तुतौ तथा पावनापरपदेषु। हृत्पद्मादिपदेषु च यद् ध्यानं तत्पदस्थमिह ।। तत्रविघ्नविपक्षयशिवशान्तिपुष्टिकवित्वचरितादिषु सितानि । क्षोभे विद्रुमवर्णान्याकृष्टावरुणवर्णानि ।। वश्ये रक्तान्यसितानि मारणे मोहने तु नीलानि । स्तम्भे पीतानि द्वेषणेऽर्द्धनीलार्धरक्तानि ।। धूम्राण्युञ्चाटनके राजावतकनिभानि परविजये । मरकतभानि भयहतौ ध्यायेन् मन्त्राक्षराणि सदा ।। स्वर्णादिप्रतिमास्थितमर्हद्रूपं यथास्थितं पश्येत । सप्रातिहार्यशोभं यत् तद् ध्यानमिह रूपस्थम् ।। सिद्धममूर्त्तमलेपं सदा चिदानन्दमयमनाधारम् । परमात्मानं ध्यायेद् यद्रूपातीतमिह तदिदम् ।। स्वर्णादिबिम्बनिष्पत्तौ कृते निर्मदनेऽन्तरा । ज्योतिष्पूर्णे च संस्थाने रूपातीतस्य कल्पना ।। विभवश्च शरीरं च बहिरात्मा निगद्यते । तदधिष्ठायको जीवस्त्वन्तरात्मा सकर्मकः ।। निरातङ्को निराकांक्षो निर्विकल्पो निरञ्जनः । परमात्माऽक्षयोऽत्यक्षो ज्ञेयोऽनन्तगुणोऽव्ययः ।। यथा लोहं सुवर्णत्वं प्राप्नोत्यौषधियोगतः । आत्मध्यानात्तथैवात्मा परमात्मत्वमश्रुते ।। लिङ्गत्रयविनिर्मुक्तं सिद्धमेकं निरञ्जनम् । निराश्रयं निराहारमात्मानं चिन्तयेद् बुधः ।।११।। अथ वर्णादित्रयमित्यष्टमं त्रिकं गाथापूर्वार्द्धन भाष्यकृद् विवृण्वन्नाह -
वनतियं वनत्थालंबणमालंबणं तु पडिमाई । वर्णत्रिकमुच्यते, किमित्याह-वर्णाालम्बनानि, तत्र वर्णाः स्तुतिदण्डादिगतान्यक्षराणि, ते च स्फुटं संपदच्छेदसुविशुद्धान्यूनातिरिक्ता उञ्चार्याः, यदवाचि भाष्ये -
थुइदंडाई वन्ना उच्चरियव्वा फुडा सुपरिसुद्धा। सरवंजणाइभिन्ना सपयच्छेया उचियघोसा।।