________________
३४
दर्शनशुद्धिप्रकरणम् - सम्यक्त्वप्रकरणम्
विधिकारितं सदथ विधिना वक्ष्यमाणेन प्रतिष्ठापयेदसम्भ्रान्तोऽनाकुलः सन्निति
भगवतः
गाथार्थः ।।११२९।।
* पञ्चाशके- ७/४३ *
उक्तं यतनाद्वारम्, तदुक्तौ चोक्तो जिनभवनकारणविधिः, अथ तदुत्तरविधिमाह -
णिफाइऊण एवं जिणभवणं सुंदरं तहिं बिंबं । विहिकारियमह विहिणा पइट्ठवेज्जा लहुं चेव ।।
निष्पाद्य निर्माप्य, एवमनन्तरोक्तविधिना जिनभवनं प्रतीतम्, ततः सुन्दरं शोभनं तत्र जिनभवने बिंबं प्रतिमां प्रक्रमाज्जिनस्यैव, विधिकारितं शास्त्रनीतिविधापितम् । अथानन्तरं विधिना शास्त्रनीत्या प्रतिष्ठापयेल्लघु शीघ्रमेव । यदुक्तम् -
निष्पन्नस्यैवं खलु जिनबिम्बस्योदिता प्रतिष्ठा तु । दशदिवसाभ्यन्तरतः सा च त्रिविधा समासेन ।। इति । चैवेत्यवधारणार्थः, इति गाथार्थः ।।४३।।
चक्रे० : अथ जिनभवनस्यैव निर्मापणविधिविशेषकृतौ भेदावाहुः
देव० : अथ जिनभवनस्यैव निर्मापणविधिविशेषकृतौ भेदावाह
अहिगारिणा विहीए कारवियं जं न साहुनिस्साए । तमनिस्सकडं अट्ठावइव्व सेसं तु निस्सकडं ।। २३ ।।
चक्रे० : अधिकारिणा विधिना कारितं यन्त्र साधुनिश्रया यत्याश्रयेण यदुत ममात्र गुरवः स्थास्यन्ति व्याख्यानादि वा करिष्यन्ति तदनिश्राकृतं जिनभवनम्, अष्टापद इव भरतचक्रवर्तिकारिताष्टापदगिरिशिखरवर्त्तिजिनभवनवत्, शेषं तूक्तविपर्ययविहितं निश्राकृतमित्यर्थः ।। २३ ।।
देव० : अधिकारिणा वर्णितेन विधिना वर्णितेनैव, स्त्रिया निर्देशः प्राकृतत्वात्, कारितं विधापितं यन्न साधुनिश्रया यत्याश्रयेण यदुत विवक्षिताचार्यपदे प्रतिबद्धमिदमिति तदनिश्राकृतं जिनभवनमिति प्रकृतमत्र दृष्टान्तमाह अष्टापद इव भरतचक्रवर्तिकारिताष्टापदगिरिशिखरवर्तिजिनभवनवत्, शेषं तूक्तविपर्ययविहितं निश्राकृतमिति गाथार्थः ।।२३।।
१. ममात्र गुरवः स्थास्यन्ति व्याख्यानादि वा करिष्यन्तीति T, B, C २. पुनरुक्त० T,B,C