________________
१-देवतत्त्वम् गा-२२
अथानन्तरं विधिना सूत्रोक्तनीत्या प्रतिस्थाप्यानुरूपतया तिष्ठत्यास्ते बिम्बम्, ततस्तदधिकारी प्रतिष्ठापयेल्लघु शीघ्रम्, 'चिय चेव एवार्थे' इति वचनाच्चेवेत्यवधारणे, ततश्च जिनभवननिष्पत्त्यनन्तरमेव बिम्बस्थापनं विधेयम्, यदुक्तम् -
निष्पन्नस्यैवं खलु जिनबिम्बस्योदिता प्रतिष्ठा तु । दशदिवसाभ्यन्तरत इति । प्रतिष्ठाविधिश्च सझेपत आह - निप्फनस्स य सम्मं तस्स पइट्ठावणे विही एसो ।
सट्ठाणे सुहजोगे अहिवासणमुचियपूयाए ।। [पञ्चवस्तु-११३२] व्याख्या-स्वस्थाने यत्र तद्भविष्यति, शुभयोगे प्रशस्तचन्द्रनक्षत्रलग्नादिसम्बन्धे, अधिवासनं प्रतिष्ठाकल्पप्रसिद्धमुचितपूजया विभवानुसारत इति, ततश्च -
चिइवंदणथुइवुड्डी उस्सग्गो साहु सासणसुराए ।
थयसरण पूयकाले ठवणा मंगलगपुव्वा उ ।।१।। [पञ्चवस्तु-११३३] व्याख्या-चैत्यवन्दना विधेया स्तुतिवृद्धिः प्रवर्धमानस्तुतिपाठ इत्यर्थः, कायोत्सर्गः कार्यः, साधु असम्मूढतया, कस्याः ? शासनसुरायाः प्रवचनदेवतायाः, तत्र स्तवस्मरणं चतुर्विंशतिस्तवानुचिन्तनं कार्यम्, ततः पूजा जातिपुष्पादिना जिनबिम्बस्य, ततः काले प्रतिष्ठालग्नस्याभिमतांशे स्थापना प्रतिष्ठा मङ्गलकपूर्वा तु पञ्चनमस्कारपूर्वैवेति । उक्तं च समुद्राचार्यप्रतिष्ठाकल्पे -
पज्जत्तमिमेणं चिय मायालोभेहिं विप्पमुक्कस्स । पंचनमुक्कारेणं असेसपावोहमलणेणं ।। [ ] सव्वत्थभावमंगल पंचनमुक्कारपुब्विया किरिया ।
कायव्वा जिणबिम्बाण सव्वभावेण य पइट्ठा ।। [ ] विस्तरस्तु ग्रन्थान्तरादवसेय इति गाथार्थः ।।२२।।
* पञ्चवस्तौ-११२९ * व्याख्याताऽधिकृतद्वारगाथा, एष तावत्समासतो जिनभवनकारणविधिः, अत्रान्तरकरणीयमाह -
णिप्फाइअ जयणाए जिणभवणं संदरं तहिं बिंबं ।
विहिकारिअमह विहिणा पइट्ठविज्जा असंभंतो ।। निष्पाद्य यतनया परिणतोदकादिग्रहणरूपया जिनभवनं जिनायतनं सुन्दरं तत्र भवने बिम्बं १. तदन्यस्तदधिकारी T.C२. जिनबिम्बोदिता A